वाचस्पत्यम्
प्राचेतस || पु० प्रचेतस् + अपत्यादौ अण् । १ बाल्मीकिमुनौ २ प्राचीनबर्हिषो नृपस्य पुत्रे ३ वसणस्य पुत्रे च ।
शब्दकल्पद्रुमः
प्राचेतसः || पुं, (प्रत्तेतसोऽपत्यमिति । प्रचेतस् + अण् ।)
वाल्मीकिमुनिः । इति हेमचन्द्रः । ३ । ५१० ॥ (यथा, रघुः । १५ । ६३ । “अथ प्राचेतसोपज्ञं रामायणमितस्ततः । मैथिलेयौ कुशलवौ जगतुर्गुरुचोदितौ ॥” प्रचेतसोऽपत्यमात्रम् । विष्णुः । यथा, हरिवंशे । २०३ । १४ । “प्रज्ञया तेजसा योगात्तस्मात् प्राचेतसः प्रभुः । विष्णुरेव महायोगी कर्म्मणामन्तरङ्गतः ॥” दक्षः । यथा, महाभारते । १ । ७५ । ५ । “वीरिण्या सह सङ्गम्य दक्षः प्राचेतसो मुनिः । आत्मतुल्यानजनयत् सहस्रं संशितव्रतान् ॥”)