संस्कृत-शब्दकोशः

प्राचैस् प्राच्छ्

प्राच्

वाचस्पत्यम्

प्राच् ||‍ अव्य० प्राचि सप्तम्यर्थे असि तस्य लुक् । प्राचीत्यर्थे ।


वाचस्पत्यम्

प्राच् ||‍ त्रि० प्र + अन्च—क्विप् । पूर्वे १ देशे २ काले च ३ दिशि स्त्री ङीप् । ४ पूज्यपूजयोरन्तरालदिशि स्त्री “यत्रैव भानुस्तु वियत्युदेति प्राचीति तां वेदविदो वदन्ति । तथा पुरः पूजकपूज्ययोश्च सदागमज्ञा प्रवदन्ति तन्त्रे” ति० त० धृत- वाक्यम् । एतच्च “शिवपूजव्यतिरिक्तविषयम्” बाचस्पति- मिश्राः । हलन्तत्वात् वा टाप् । “प्राचाजिह्वम्” ऋ० १ । १४० । ३ । “प्राचामन्युः” ऋ० ८ । ६१ । ९ “प्राची वै दैवी दिक् पुरस्ताद्वै देवाः, प्रत्यञ्चो मनुष्यास्तानुपावृत्ताः तस्मा- त्तेभ्यः प्राङ्तिष्ठन् जुहोति” शत० ३ । १ । १ । ६



Correction: