संस्कृत-शब्दकोशः

प्राच्यायन प्राजन

प्राजक

वाचस्पत्यम्

प्राजक ||‍ पु० प्र + अज—ण्वुल् वीभावाभावः । सारथौ “यत्राप वर्त्तते युग्यं वैगुण्यात् प्राजकस्य च” मनुः ।


शब्दकल्पद्रुमः

प्राजकः || पुं, (प्राजयति प्रकर्षेण गमयति घोट- कादीनिति । प्र + अज् + णिच् + ण्वुल् ।)
सारथिः । यथा, मनुवचने । ८ । २९३ । “यत्रापवर्त्तते युग्यं वैगुण्यात् प्राजकस्य च । तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्बिशतं दमम् ॥” “यत्र सारथेरकौशल्याद्यानमन्यथा गच्छति तत्र हिंसायां अशिक्षितसारथिनियोगात् स्वामी द्विशतं दण्डं दण्ड्यः स्यादिति कुल्लूक- भट्टः ।” इति प्रायश्चित्ततत्त्वम् ॥



Correction: