संस्कृत-शब्दकोशः

प्राजापत्य प्राजावत

प्राजापत्या

शब्दकल्पद्रुमः

प्राजापत्या || स्त्री (प्रजापतिर्देवतास्या इति । प्राजापति + ण्यः । स्त्रियां टाप् ।)
प्रव्रज्या- श्रमपूर्ब्बकर्त्तव्यप्रजापतिदेवताकसर्व्वस्वदक्षिणा इष्टिः । यथा, मानवे ६ अध्याये । “प्राजापत्यां निरूप्येष्टिं सर्व्ववेदसदक्षिणाम् । आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद्- गृहात् ॥”



Correction: