संस्कृत-शब्दकोशः

प्राजेश प्राज्ञमानिन्

प्राज्ञ

वाचस्पत्यम्

प्राज्ञ ||‍ पु० प्रकर्षेण जानाति प्र—ज्ञा—क स्वार्थे अण् । १ पण्डिते अमरः २ राजशुके राजनि० । प्रज्ञाऽस्त्यस्य अण् । ३ बुद्धिमति ४ दक्षे च त्रि० । प्रज्ञा + स्वार्थे ण । ६ बुद्धौ स्त्री टाप् प्राज्ञस्य पत्नी ङीप् । प्राज्ञी ७ प्राज्ञपत्न्यां स्त्री । ७ कल्किनो ज्येष्ठभ्रातरि पु० कल्किपु० २ अ० । प्रकर्षेण अज्ञः । वेदान्तसारोक्ते ८ व्यष्ठ्यु पहितचैतन्ये एकाज्ञानमात्रभासके जीवचैतन्ये पु० “एतदुपहितचैत- न्यमल्पज्ञत्वानीश्वरत्वादिगुणकं प्राज्ञ इत्युच्यते । एका- ज्ञानावभासकन्वादस्य प्राज्ञत्वम् अस्पष्टोपाधितयाऽनति- प्रकाशकत्वम्” बेदान्तसारः । प्रज्ञ + स्वार्थे अण् स्त्रियां ङीप् । प्राज्ञी ९ सूर्यपत्न्याम् स्त्री ।


शब्दकल्पद्रुमः

प्राज्ञः || त्रि (प्रज्ञ + स्वार्थे अण् । यद्बा, प्रज्ञा- स्त्यस्येति । अच् ।)
पण्डितः । (यथा, महा- भारते । १ । १४६ । १९ । “पौरेषु विनिवृत्तेषु विदुरः सर्व्वधर्म्मवित् । बोधयन् पाण्डवश्रेष्ठमिदं वचनमब्रवीत् ॥ प्राज्ञः प्राज्ञं प्रलापज्ञः प्रलापज्ञमिदं वचः ॥”)
दक्षः । इति शब्दरत्नावली ॥ (विज्ञः । यथा, मनुः । २ । १२३ । “नामधेयस्य ये केचिदभिवादं न जानते । तान् प्राज्ञोऽहमिति ब्रूयात् स्त्रियः सर्व्वास्तथैव च ॥”)


शब्दकल्पद्रुमः

प्राज्ञः || पुं, (प्रकर्षेण जानातीति । प्र + ज्ञा + कः । ततः प्रज्ञ एव स्वार्थे अण् ।)
कल्कि- देवस्य ज्येष्ठभ्राता । यथा, —
“कल्किं द्रष्टुं हरेरंशमाविर्भूतञ्च शम्भले । कविं प्राज्ञं सुमन्तञ्च पुरस्कृत्य महाप्रभम् ॥” इति कल्किपुराणे २ अध्यायः ॥ पण्डितः । इत्यमरः । २ । ७ । ५ ॥ (यथा, —
“पण्डिते च गुणाः सर्व्वे मूर्खे दोषा हि केवलम् । तस्मान्मूर्खसहस्रेषु प्राज्ञ एको विशिष्यते ॥” इत्युद्भटः ॥)
राजशुकः । इति राजनिर्घण्टः ॥ (प्रकर्षेण अज्ञः इति विग्रहे मूर्खोऽपि ॥)



Correction: