वाचस्पत्यम्
प्राज्य || न० प्रकृष्टमाज्यं प्र + अन्ज—क्यप् वा । १ प्रकृष्टघृते २ प्रचुरे त्रि० हेमच० ।
शब्दकल्पद्रुमः
प्राज्यं || त्रि (प्रवीयते इति । प्र + अज् + ण्यत् । वीभावाभावः ।)
प्रचुरम् । इत्यमरः । ३ । १ । ६३ ॥ (यथा, कुमारे । २ । १८ । “स्वागतं स्वानधीकारान् प्रभावैरवलम्ब्य वः । युगपद्युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ॥” प्रभूतं आज्यं घृतं यस्येति विग्रहे प्रचुरघृत- सम्पन्नः । प्रकृष्टमाज्यमिति विग्रहे प्रकृष्ट- घृते, क्ली ॥)