वाचस्पत्यम्
प्राड्विवाक is an alternate of प्राड्विवेक. प्राड्वि(वा)वेक || पु० अर्थिप्रत्यर्थिनौ पृच्छति प्रच्छ—क्विप् प्राट्, तयोर्वाक्यं विरुद्धाविरुद्धतया विवेचयति वक्ति वा वि + विच—वि + वच—वा संज्ञायां घञ् कर्म० । व्यव- हारदर्शनाय राजनियुक्ते १ विचारके स्वयं विचारक २ नृपसहाये च तल्ल्क्षणादिकं वीरमि० उक्तं यथा “विवादे पृच्छति पश्नं प्रतिप्रश्नं तथैव च । प्रियपूर्वं प्राग्वदति प्राड्विवाकस्ततः स्मृतः” वृहम्पतिः । व्यासो- ऽपि “विवादानुगतं पृष्ट्वा ससभ्यस्तत् प्रयत्नतः । विचारयति येनासौ प्राड्विवेकस्ततः स्मृतः” गौतमेन तु वृहस्पतिवद्योगार्थः प्राड्विवाकशब्दस्य दर्शितः । “प्राड्विवाको वादिप्रतिवादिनौ पृच्छतीति प्राट् ताभ्या- मुक्तं सभ्यैः सह विविच्य वक्तीतिप्राड्विवाकः” इति वृहस्पतिना । विचारयतीत्यभिधानाद्विविनक्ति इति विवे- कशब्दस्य व्युत्पत्तिरुक्ता । विविच्य वक्तीति विवाक इति । इति गौतमेन । नारदहारीतौ “यथा शल्यं भि- षक्कायादुद्धरेद्यत्नयुक्तितः । प्राड्विवाकस्तथा शल्य- मुद्धरेद्व्यवहारतः” इति । शल्यञ्च धर्मस्याधर्ममिश्र- णम् । यथा च मनुः “बिद्धो धर्मो ह्यधर्मेण सभां यत्रोपतिष्ठते । शल्यञ्चास्य निकृन्तन्ति विद्धास्तत्र सभा- सद” इति । अयञ्च राज्ञा स्वयंव्यवहारदर्शने क्रियमा- णेऽस्य सहयः “सप्राड्विवाकः” इति स्मरणात् । यदा तु राजा कार्य्यान्तरव्यग्रतया स्वास्थ्याभावेन वा स्वयं व्यवहारदर्शनासमर्थस्तदा तत्प्रतिनिधिः । “यदा स्वयं- न कुर्य्यात् तु नृपतिः कार्य्यदर्शनम् । तदा मियुञ्ज्या- द्विद्वासं ब्राह्मणं कार्य्यदर्शने । सोऽस्य कार्य्याणि सम्प- श्येत्सभ्यैरेव त्रिभिर्वृतः । सभामेव प्रविश्याग्र्यामा- सीनः स्थित एव सः” इति मनुवचनात् । सभ्यग्रहणा- दमात्यादिनिवृत्तिः त्रिग्रहणात् संख्यान्तरनिवृत्तिः । अस भ्यानामिति स्मृतिचन्द्रिकाकारः । तत्र दृष्टार्थत्वप्रसङ्गा दयुक्तमित्युपलक्षणत्वमेव न्याप्यम् । “अपश्यता कार्यवशा द्व्यवहारान्नृपेण तु । सभ्यैः स ह नियोक्तव्यो ब्रा ह्मणः सर्व धर्मवित्” इति याज्ञवल्क्यवचनाच्च । “यद न कुर्य्यान्नृपतिः स्वयं कार्यविनिर्णयम् । तथा तत्र नियुञ्जीत ब्राह्मणं शास्त्रपारगम् । दान्तं कुलीनं मध्यस्थमनुद्वेगकरं स्थिरम् । परत्रभीरुं धर्मिष्ठ- मुद्युक्तं क्रोधवर्जितम्” इति कात्यायनस्मरणाच्च । शास्त्रपारगं बहुशास्त्राभियोगशालिनम् । यथा ह स एव “एकं शास्त्रमधीयानो न विद्यात् कार्यनिर्णयम् । तस्माद्बह्वागमः कार्य्यो विवादेषूत्तमो नृपैः” । एवंविध- ब्राह्मणालाभे क्षत्रियं वैश्यं वा प्रतिनिदधीत न शूद्रम् । तथा च स एव “यत्र विप्रो न विद्वान् स्यात् क्षत्रिथं तत्र थोजयेत् । वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत्” मनुः “जातिमात्रोपजीवी वा कामं स्याद्ब्राह्मणब्रुवः । धर्मप्रवक्ता नृपतेर्न तु शूद्रः कथञ्चन । यस्य राज्ञस्तु कुरुते शूद्रो धर्मविवेचनम् । तस्य सीदति तद्राष्ट्रं पङ्के गौरिव पश्यतः” । व्यासः “द्विजान् विहाय या पश्येत् कार्य्याणि वृषलैः सह । तस्य प्रक्षुभ्यते राष्ट्रं बलं कोशश्च नश्यति” । इदं वचनं स्मृतिचन्द्रिकायाममा- त्यादिस्थानेऽपि शूद्रं वर्जयेत् किमुत धर्मनिर्णय इत्येवंपरमुक्तम दोषातिशयकीर्त्तनात् । कल्पतर्वा- दिषु तु प्रकरणाद्व्यवहारदर्शन एव शूद्रवर्जकत्वेन लि- खितम् । अयञ्च प्रतिषेधोऽदृष्टार्थ एव राष्ट्रक्षोभादे- रदृष्टद्वारकफलस्यैव सङ्कीर्त्तनात् । चण्डेश्वरेण तु शू- द्रस्य धर्मज्ञानेऽपि वेदाविरोधप्रतिसन्धानविरहात् तत्- प्रतिसन्धानस्य च सम्यग्निर्णयोपायत्वात् त्याग इति युक्तिरप्युक्ता । सा बणिगादिष्वतिप्रसक्तेत्यन्वाचयमात्रम् । एते च सर्वे व्यवहारसम्बद्धाः प्रतिषेधा अभिषिक्तक्ष- त्रियाधिकारिकास्तत्स्थानापन्नान्याधिकारिकाश्च । प्राड्- विवाकादयस्त्वर्थार्थितया ऋत्विक्स्थानीयाः । सप्राड्- विवाक इत्यादिना तेषां गुणभावावगमान्नियोगोक्तेश्च । “राजाभिषेकसंयुक्तो ब्राह्मणो वा बहुश्रुतः । धर्मासनगतः पश्येद्व्यवहाराननुल्वणः” इति प्रजापतिवचनात् । अत्र राजशब्दोऽवयुत्यधिकारणन्यायेन क्षत्रियजातिवचनः । अभिषेकसंयुक्त इति वचनात् मृत्यन्तरेऽप्यभिषिक्तक्षत्रियं प्रक्रम्य तदभिधानाच्चानभिषिक्तक्षत्रियस्य नाधिकारः । अतश्च तत्प्रयुक्तशुभाशुभफलयोस्तद्गामितैव । प्राड्- विवाकादीनान्तु प्राक्प्रदर्शितेभ्यो न्यायेनापि तं यान्त- मित्यादि वाक्येभ्यो राज्ञोऽनिवारणे परं दृष्टादृष्टदोषभा- गिता । अनियुक्तानान्तु न तत्रापीत्यादि मिताक्षरादौ व्यक्तम् । ब्राह्मणो वेत्यनुकल्पत्वाभिप्रायको वाशब्दो न तुल्यकक्षाधिकारपरः । अनुस्त्वणोऽनुद्धतः” ।
शब्दकल्पद्रुमः
प्राड्विवाकः || पुं, (पृच्छतीति प्राट् विविच्य वक्तीति विवाकः । ततः कर्म्मधारयः ।)
व्यवहारद्रष्टा । जज् इति इङ्गरेजी भाषा । तत्पर्य्यायः । अक्ष- दर्शकः २ । इत्यमरः । २ । ८ । ५ ॥ व्यवहार- दर्शी ३ । इति शब्दरत्नावली ॥ द्वे व्यव- हाराणां ऋणादानादिविवादानां द्रष्टरि निर्णे- तरि धर्म्माध्यक्षे इत्यर्थः । पृच्छति वादिप्रति- वादिवाक्यं प्राट् ददृज्जुहूवाक् प्राडिति निपातः । विविच्य वक्ति विवाकः कभावेऽमी इति घञ् प्राट् चासौ विवाकश्चेति प्राड्विवाकः । “विवादानुगतं पृष्ट्वा पूर्ब्बवाक्यं प्रयत्नतः । विचारयति येनासौ प्राड्विवाकस्ततः स्मृतः ॥” इति स्मृतिः । इति भरतः ॥ अपि च । अर्थिप्रत्यर्थिनौ पृच्छतीति प्राट् तयोर्व्वचनं विरुद्धाविरुद्धञ्च सभ्यैः सह विवि- नक्ति विवेचयति वेति विवाकः प्राट् चासौ विवाकश्चेति प्राड्विवाकः । उक्तञ्च । “विवादानुगतं पृष्ट्वा ससभ्यस्तत् प्रयत्नतः । विचारयति येनासौ प्राड्विवाकस्ततः स्मृतः ॥” इति मिताक्षरा ॥