वाचस्पत्यम्
प्राणकर्मन् || न० ६ त० । प्राणानां दशानां कर्मभेदे तानि च कर्माणि “सर्वाणीन्द्रियकर्माणि, प्राणकर्माणि चापरे” गीता भाष्य टी० आनन्दगिरिणोक्तानि यथा “प्राणानाञ्च दशानां कर्माणि, प्राणस्य बहिर्गमनम् अपानस्याधोगमनं व्यानस्य व्यायामाकुञ्चनप्रसरणादीनि समानस्याशितपीतादीनां समुन्नयनं उदानस्योर्द्ध्वनयनम् “उद्गारे नाग आख्यातः कूर्म उन्मीलने स्मृतः । कृकरः क्षुत्करो ज्ञेयो देवदत्तो विजृम्भणे । न जहाति मृत- ञ्चापि सर्वव्यापी धनञ्जयः” इत्येवं रूपाणि ।