संस्कृत-शब्दकोशः

प्राणद प्राणन

प्राणदा

वाचस्पत्यम्

प्राणदा ||‍ स्त्री चक्रदत्तोक्ते गुटिकाभेदे “सनागरारुष्करवृद्धि- दारकं गुडेन या मोदकमत्युदारकम् । अशेषदुर्नामक- रोगदारकं करोति वृद्धं सहसैव दारकम् । चूर्णे चूर्ण- समो ज्ञेयो मोदके द्विगुणो गुडः । त्रिपलं शृङ्गवेरस्य चतुष्कं मरिचस्य च । पिप्पल्याः कुडर्बार्द्धञ्च चव्यायाः पलमेव च । तालीशपत्रस्य पलं पलार्द्धं केसरस्य च । द्वे पले पिप्पलीमूलादर्द्धकर्षञ्च पत्रकात् । सूक्ष्मैला- कर्षमेकन्तु कर्षं त्वचमृणासयोः । गुडात् पलानि तु त्रिंशच्चूर्णमेकत्र कारयेत् । अक्षप्रामाखा गुडिका प्राण- देति च सा स्मृता” ।


शब्दकल्पद्रुमः

प्राणदा || स्त्री (प्राणं जीवनं बलं वा ददातीति । दा कः । टाप् ।)
ऋद्धिबृक्षः । हरीतकी । इति राजनिर्घण्टः ॥ (प्राणदात्री । यदुक्तम् । “यशोहरे किमाश्चर्य्यं प्राणदा यमदूतिका ॥”)



Correction: