संस्कृत-शब्दकोशः

प्राणदा प्राणनाथ

प्राणन

वाचस्पत्यम्

प्राणन ||‍ न० प्र + अन—भावे ल्युट् । १ जीवने जटा० । करणे ल्युट् । २ जले पु० शब्दच० ।


शब्दकल्पद्रुमः

प्राणनं || क्ली (प्र + अन प्राणने + ल्युट् ।)
जीव- नम् । इति जटाधरः ॥ (यथा, भागवते । ३ । २६ । ४१ । “क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम् । तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः ॥” चेष्टनम् । यथा, ऋग्वेदे । १ । ४८ । १० । “विश्वस्य हि प्राणनं जीवनं त्वे वियदुच्छसि सूनरि ॥” “हे सूनरि उषोदेवि विश्वस्य सर्व्वस्य प्राणि- जातस्य प्राणनं चेष्टनं जीवनं प्राणधारणञ्च ।” इति तद्भाष्ये सायनः ॥ प्राणित्यनेनेति । करणे ल्युट् ।)
गले, पुं । इति शब्दचन्द्रिका ॥



Correction: