संस्कृत-शब्दकोशः

प्राणन प्राणनिग्रह

प्राणनाथ

वाचस्पत्यम्

प्राणनाथ ||‍ पु० ६ त० । पत्यौ शब्दरत्ना० । प्राणपत्यादयोऽप्यत्र


शब्दकल्पद्रुमः

प्राणनाथः || पुं, (प्राणानां नाथः ।)
पतिः । इति शब्दरत्नावली ॥ (यथा, साहित्यदर्पणे ३ परिच्छेदे । “चाटुकारमपि प्राणनाथं रोषादपास्य या । पश्चात्तापमवाप्नोति कलहान्तरिता तु सा ॥” स्त्रियां टाप् । पत्नी । यथा, विष्णुस्तोत्रे । ९ । “धात्रीं स्थात्रीं जनित्रीं प्रकृतिमविकृतिं विश्व- शक्तिं विधात्रीं विष्णोर्विश्वात्मनस्तां विपुलगुणमयीं प्राणनाथां प्रणौमि ॥”)



Correction: