वाचस्पत्यम्
प्राणन्त || पु० प्र + अन—करणे झ । १ वायौ उज्ज्वल० २ रसा- ञ्जने अञ्जनभेदे ३ क्षुधायां ४ हिक्कायाञ्च स्त्री उणादि० ।
शब्दकल्पद्रुमः
प्राणन्तः || पुं, (प्राणित्यनेनेति । प्र + अन + “रुहि- नन्दिजीविप्राणिभ्यः षिदाशिषि ।” उणा ० ३ । १२७ । इति झच् ।)
वायुः । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥ रसाञ्जनम् । इत्युणादि- कोषः ॥