वाचस्पत्यम्
प्राणमय || पु० प्राण + प्राचुर्य्ये मयट् । “कर्मेन्द्रियैः पञ्चभिरञ्चि- तोऽसौ प्राणो भवेत् प्राणमयस्तु कोषः” विवेकचू० उक्ते जीवस्वरूपावरके कोषभेदे “नैवात्मापि प्राणमयो वायु- विकारो गन्ताऽऽगन्ता वायुवदन्तर्बहिरेष । यस्मात् कि- ञ्चित् क्वापि न वेत्तीष्टमनिष्टं स्वं वाऽप्यं वा किञ्चन नित्यं परतन्त्रः” तस्य तत्रैवात्मनोभेदे हेतुरुक्तः ।