वाचस्पत्यम्
प्राणहर || त्रि० प्राणं हरति देहात् देहान्तरं प्रापयति बलं वा हरति हृ—अच् । १ प्राणस्य देहात् देहान्तरप्रापके २ बलनाशके । “शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि । प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट्” चाणक्यः । ३ विषादौ च याज्ञ० २ । २२७ ।