संस्कृत-शब्दकोशः

प्राणहारक प्राणाग्निहोत्र

प्राणा

शब्दकल्पद्रुमः

प्राणाः || पुं, (प्राणित्येभिरिति । प्र + अन + करणे घञ् ।)
असवः । इत्यमरः । २ । ९ । ११९ ॥ “द्वे अङ्गसन्निहितेषु पञ्चवायुषु । अस्यन्ते असवः नाम्नीति उः । प्राणिति एभिः प्राणाः घञ् । एवमिति असुवत् प्राणा अपि पुं बहुत्वे इत्यर्थः । असुप्राणशब्दाभ्यां बहुवचनान्ताभ्यां पञ्चप्राणा- दय उच्यन्ते न पुनरेकैकाभिधाने बहुवचनम् अतएव प्राणोऽपान इत्युक्तं हृदि प्राणो गुदे- ऽपान इत्यादि च दृश्यते ।” इति तट्टीकायां भरतः ॥ (यथा हितोपदेशे । १ । ७३ । “प्राणा यथात्मनोऽभीष्टा भूतानामपि ते तथा । आत्मौपम्येन भूतानां दयां कुर्व्वन्ति साधवः ॥” शरीरस्थपञ्चप्राणा यथा, —
“प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ॥” शरीरस्था इमे — ॥” इत्यमरः । १ । १ । ६७ ॥ “इमे प्राणादयः पञ्च वायवः शरीरे तिष्ठन्ति ते च नियतस्थानस्थाः ॥ यदाहुः । ‘हृदि प्राणो गुदेऽपानः समानो नाभि- संस्थितः । उदानः कण्ठदेशे च व्यानः सर्व्वशरीरगः ॥’ एवं तद्व्यापाराश्च यथा, — अन्नप्रवेशनं मूत्राद्युत्सर्गोऽन्नविपाचनम् । भाषणादिनिमेषादितद्ब्यापाराः क्रमादमी ॥” इति च भरतः ॥ प्राणकराणि यथा, —
“सद्योमांसं नवान्नञ्च बालास्त्री क्षीरभोजनम् । घृतमुष्णोदकञ्चैव सद्यः प्राणकराणि षट् ॥” प्राणहराणि यथा, —
“शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि । प्रभाते मैथुनं निद्रा सद्यःप्राणहराणि षट् ॥” इति चाणक्यकर्म्मलोचने ॥ प्राणवियोगकालकर्त्तव्यं यथा, —
“कण्ठस्थानं गते जीवे भीतिविभ्रान्तमानसः । ज्ञात्वा च विह्वलं तत्र शीघ्रं निःसारयेद्गृहात् ॥ कुशास्तरणशायी च दिशः सर्व्वा न पश्यति । लब्धस्मृतिर्मुहूर्त्तात्तु यावज्जीवो न नश्यति ॥ वाचयेत् स्नेहभावेन भूमे देवा द्विजातयः । सुवर्णञ्च हिरण्यञ्च यथोत्पन्नेन माधवि ॥ परलोकहितार्थाय गोप्रदानं विशिष्यते । सर्व्वदेवमया गाव ईश्वरेणावतारिताः ॥ अमृतं क्षरयन्त्यश्च प्रचरन्ति महीतले । एतासाञ्चैव दानेन शीघ्रं मुच्येत किल्विषात् ॥ पश्चात् श्रुतिपथं दिव्यमुत्कर्णेन च श्रावयेत् ॥ यावत्प्राणान् प्रमुच्येत कृत्वा कर्म्म सुदुष्करम् ॥ दृष्ट्वा सुविह्वलं ह्येनं मम मार्गानुसारिणम् । प्रयाणकाले तु नरो मन्त्रेण विधिपूर्ब्बकम् ॥ मन्त्रेणानेन कर्त्तव्यं सर्व्वसंसारमोक्षणम् । मधुपर्कं त्वरन् गृह्य इदं मन्त्रमुदाहरेत् ॥” मन्त्रः । “गृहाण चेमं मधुपर्कमाद्यं संसारनाशनकरं त्वमृतेन तुल्यम् । नारायणेन रचितं भगवत्-प्रियाणां दाहे च शान्तिकरणं सुरलोकपूज्यम् ॥ तत एतेन मन्त्रेण दद्याद्बै मधुपर्ककम् । पुरुषो मृत्युकाले तु परलोकसुखावहम् ॥ एवं विनिःसृतात् प्राणात् संसारञ्च न गच्छति । नष्टसंज्ञं समुद्दिश्य ज्ञात्वा मृत्युवशं गतम् ॥ महावनस्पतिं गत्वा गन्धांश्च विविधानपि ॥ घृततैलसमायुक्तं कृत्वा वै देहशोधनम् ॥ तेजोव्ययकरं वास्य तत्सर्व्वं परिकल्प्य च । दक्षिणायां शिरः कृत्वा सलिले तं निधाय च ॥ तीर्थाद्यावाहनं कृत्वा स्नापनं तस्य कारयेत् ॥ गयादीनि च तीर्थानि ये च पुण्याः शिलो- च्चयाः । कुरुक्षेत्रञ्च गङ्गा च यमुना च सरिद्बरा ॥ कौशिकी च पयोष्णी च सर्व्वपापप्रणाशिनी । गण्डकी भद्रनामा च सरयूर्बलदा तथा ॥ वनानि नववाराहं तीर्थं पिण्डारकं तथा । पृथिव्यां यानि तीर्थानि चत्वारः सागरास्तथा । सर्व्वाणि मनसा ध्यात्वा स्नानमेवन्तु कारयेत् ॥ प्राणाद्गतन्तु तं ज्ञात्वा चितां कृत्वा विधानतः । तस्या उपरि तं स्थाप्य दक्षिणाग्रं शिरस्तथा ॥ देवानग्निमुखान् ध्यात्वा गृह्य हस्ते हुताशनम् । प्रज्वाल्य विधिवत्तत्र मन्त्रमेतदुदाहरेत् ॥” मन्त्रः । “कृत्वा तु दुष्करं कर्म्म जानता वाप्यजानता । मृत्युकालवशं प्राप्य नरः पञ्चत्वमागतः ॥ धर्म्माधर्म्मसमायुक्तो लोभमोहसमावृतः । दहेयं तस्य गात्राणि दैवलोकाय गच्छतु ॥ एवमुक्त्वा ततः शीघ्रं कृत्वा चैव प्रदक्षिणम् । ज्वलमानं तदा वह्निं शिरःस्थाने प्रदापयेत् ॥ चातुर्व्वर्ण्येषु संस्कारमेवम्भवति पुत्त्रक ! । गात्राणि वाससी चैव प्रक्षाल्य विनिवर्त्तयेत् ॥ मृतनाम तथोद्दिश्य दद्यात् पिण्डं महीतले । तदाप्रभृति चाशौचं दैवकर्म्म न कारयेत् ॥” इति वराहपुराणे श्राद्धोत्पत्तिनामाध्यायः ॥


शब्दकल्पद्रुमः

प्राणा || स्त्री (प्राणिति बहुकालमिति । प्र + अन + अच् । टाप् ।)
पक्षिणीविशेषः । सा चारुणगरुडयोः श्वश्रूः । यथा, —
“पुलहस्त्यात्मजः सर्गः प्राणायास्तु निबोधत । कन्याः षडिति विख्याताः प्राणाया वै विजज्ञिरे ॥ श्येनी भासी तथा क्रौञ्ची धृतराष्ट्री शुनी शुकी । अरुणस्य भार्य्या श्येनी वीर्य्यवन्तौ महाबलौ ॥ सम्पातिश्च जटायुश्च प्रसूतौ पक्षिसत्तमौ । सम्पातिर्जनयन् गृध्रान् काकाः पुत्त्रा जटायुषः ॥ भार्य्या गरुत्मतश्चापि भासी क्रौञ्ची शुनी शुकी ॥” इत्यग्निपुराणम् ॥



Correction: