संस्कृत-शब्दकोशः

प्राणासन प्राणिद्यूत

प्राणाहुति

वाचस्पत्यम्

प्राणाहुति ||‍ स्त्री प्राणरूपेभ्योऽग्निभ्य आहुतिः । भोजनात् प्राक् गृहस्थकर्त्तव्ये प्राणरूपाग्न्युद्देश्यकाहुतौ तत्- प्रकारच आह्नि० त० दर्शितो यथा छन्दोगपरिशिष्टे “प्राणेभ्यस्त्वथ पञ्चभ्यः स्वाहा प्रण- वसंयुताः । पञ्चाहुतीस्तु जुहुयात् प्रलयाग्निनिभेषु च” । प्राणांहुतिमुद्रामाह शौनकः “तर्जनीमध्यमाङ्गु- ष्ठैर्लग्ना प्राणाहुतिर्भवेत् । मध्यमानामिकाङ्गुष्ठैरपाने जुहुयात्ततः । कनिष्ठानामिकाङ्गुष्ठैर्व्याने च जुहुया- द्धविः । तर्जनीन्तु बहिष्कृत्वा उदाने जुहुयात्ततः । समाने सर्बहस्तेन समुदायाहुतिर्भवेत्” । स्मृत्यर्थसारे “प्राणाहुतौ घृताभावे पश्चात् भुञ्जीत नो घृतम्” अत्र पाठक्रमेण प्राणापानव्यानोदानसमानरूपेभ्य आहुति- रुक्ता । वैश्वानरविदस्तु छान्दो० उ० अन्यक्रम उक्तो यथा “तद्यद्भक्त प्रथममागच्छे त्तद्धोमीयं, स यां प्रथमामाहुतिं जुहुयात्तां जुहुवात् प्रणाय स्वाहेति प्राणस्तुप्यति” । अथ यां द्वितीयां जुहुयात्तां जुहुयाद्व्यानाय स्वाहेति व्यानस्तृप्यति” । “अथ यां तृतीयां जुहुयात्ता जुहुया- दषनाय स्वाहेत्यपानस्तृप्यति” । “अथ यां चतुर्थीं जुहु- यात्तां जुहुयात् समानाय स्वाहेति समानस्तृप्यति” । “अथ यां पञ्चमीं जुहुयात्तां जुहुयादुदानाय स्वाहेत्यु- दानस्तृप्यति” ।



Correction: