वाचस्पत्यम्
प्राणिन् || नित्यम् त्रि० प्राणोऽस्त्यस्य इनि । जीवे चेतने जनुमात्रे ।
शब्दकल्पद्रुमः
प्राणी || [न्] त्रि, (प्राणाः सन्त्यस्येति । प्राण + “अत इनिठनौ ।” ५ । २ । ११५ । इति इनिः ।)
प्राणविशिष्टः । मनुष्यादिः । तत्पर्य्यायः । चेतनः २ जन्मी ३ जन्तुः ४ जन्युः ५ शरीरी ६ । इत्य- मरः । १ । ४ । ३० ॥ (यथा, मनौ । १ । २२ । “कर्म्मात्मनाञ्च देवानां सोऽसृजत् प्राणिनां प्रभुः । साध्यानाञ्च गणं सूक्ष्मं यज्ञञ्चैव सनातनम् ॥”)