वाचस्पत्यम्
प्राण्यङ्ग || न० ६ त० । प्राणिनोऽङ्गे अवयवे हस्तपादादौ तत्र उपसर्जने “अद्रवं मूर्तिमत् स्वाङ्गं प्राणिस्थमवि- कारिजम् । अतत्स्थं तत्र दृष्टञ्च तेन तद्वत् तथा युतम्” इत्युक्तलक्षणस्वाङ्गरूपकत्वे असंयोगोपधत्वे ङीष् । तत्र क्रोडादिबह्ववो नासिकोदरजङ्घादन्तशृङ्गाणाम् उच्छस्य च विशेषोक्तेः संयोगोपधत्वेऽपि ङीष् स्यात् ।