वाचस्पत्यम्
प्रातःकृत्य || न० ७ त० । शास्त्रविहिते प्रातःकर्त्तव्ये कर्मणि तच्च आचारशब्दे ६३३ पृ० दर्शितम् । एवमन्यत्रापि यथा- यथं नानाशास्त्रे उक्तं दृश्यम् ।
शब्दकल्पद्रुमः
प्रातःकृत्यं || क्ली (प्रातः प्रभातकालस्य कृत्यं कर्त्तव्या क्रिया ।)
प्रभातकर्त्तव्यकर्म्म । तदनुष्ठानं यथा, “ब्राह्मे मुहूर्त्ते उत्थाय धर्म्ममर्थञ्च चिन्तयेत् । कायक्लेशन्तदुद्भूतं ध्यायेत्तु मनसेश्वरम् ॥ उषःकालेऽथ संप्राप्ते कृत्वा चावश्यकं बुधः । स्नायान्नदीषु शुद्धासु शौचं कृत्वा यथाविधि ॥ प्रातःस्नानेन शुध्यन्ति येऽपि पापकृतो जनाः । तस्मात् सर्व्वप्रयत्नेन प्रातःस्नानं समाचरेत् ॥ प्रातःस्नानं प्रशंसन्ति दृष्टादृष्टकरं शुभम् । ऋषीणां शुचिता नित्यं प्रातःस्नानान्नं संशयः ॥ मुखे सुप्तस्य सततं लालाद्याः प्रस्रवन्ति हि । ततो नैवाचरेत् कर्म्माण्यकृत्वा स्नानमादितः ॥ अलक्ष्मीः कालकर्णी च दुःस्वप्नं दुर्विचिन्तितम् । प्रातःस्नानेन पापानि पूयन्ते नात्र संशयः ॥ न च स्नानं विना पुंसां पावनं प्रत्यहं स्मृतम् । होमे जप्ये विशेषेण तस्मात् स्नानं समाचरेत् ॥ अशक्तावशिरस्कं वा स्नानमस्य विधीयते । आर्द्रेण वाससा चाथ मार्जनं कायिकं स्मृतम् ॥ अप्रायत्ये समुत्पन्ने स्नानमेव समाचरेत् । ब्राह्मादीनि यथाशक्तौ स्नानान्याहुर्म्मनीषिणः ॥ ब्राह्ममाग्नेयमुद्दिष्टं वायव्यं दिव्यमेव च । वारुणं यौगिकं तद्वत षोढास्नानं प्रकीर्त्तितम् ॥ ब्राह्मन्तु मार्ज्जनं मन्त्रैः कुशैः सोदकबिन्दुभिः । आग्नेयं भस्मना पादमस्तकादिविधूननम् ॥ गवां हि रजसा प्रोक्तं वायव्यं स्नानमुत्तमम् । यत्तु सातपवर्षेण स्नानन्तद्दिव्यमुच्यते ॥ वारुणञ्चावगाह्यन्तु मानसन्त्वात्मवेदनम् । यौगिकं स्नानमाख्यातं योगो विष्णुविचिन्तनम् ॥ आत्मतीर्थमिति ख्यातं सेवितं ब्रह्मवादिभिः ॥ मनःशुचिकरं पुंसां नित्यन्तत्स्नानमाचरेत् । शक्तश्चेव्वारुणं विद्वान् प्राजापत्यन्तथैव च ॥ * ॥
प्रक्षाल्य दन्तकाष्ठं वै भक्षयित्वा विधानतः । आचम्य प्रयतो नित्यं स्नानं प्रातः समाचरेत् ॥ मध्याङ्गुलसमस्थौल्यं द्वादशाङ्गुलसम्मितम् । सत्वचं दन्तकाष्टं स्यात्तस्याग्रेण च धावयेत् ॥ क्षीरिवृक्षसमुद्भूतं मालतीसम्भवं शुभम् । अपामार्गञ्च विल्वञ्च करवीरं विशेषतः ॥ वर्ज्जयित्वा निन्दितानि गृहीत्बैनं यथोदितम् । परिहृत्य दिनं पापं भक्षयित्वा विधानतः ॥ नोत्पाटयेद्दन्तकाष्ठं नाङ्गुल्या धावयेत् क्वचित् । प्रक्षाल्य भुक्त्वा तज्जह्याच्छुचौ देशे समाहितः ॥ स्नात्वा सन्तर्पयेद्देवानृषीन् पितृगणांस्तथा । सम्मार्ज्य मन्त्रै रात्मानं कुशैः सोदकबिन्दुभिः ॥ आपोहिष्ठाव्याहृतिभिः सावित्र्या वारुणैः शुभैः । ॐकारयाहृतियुतां गायत्त्रीं देवमातरम् । जप्त्वा जलाञ्जलिं दद्याद्भास्करं प्रति तन्मनाः ॥ प्राक्कूलेषु समासीनो दर्भेषु सुसमाहितः । प्राणायामत्रयं कृत्वा ध्यायेत् सन्ध्यामिति स्मृतिः ॥ या सन्ध्या सा जगत्सूतिर्मायातीता च निष्कला । ऐश्वरी तु परा शक्तिस्तत्तन्मन्त्रसमुद्भवा ॥ ध्यात्वार्कमण्डलगतां सावित्रीं वै जपन् बुधः । प्राङ्मुखः सततं विप्रः सन्ध्योपासनमाचरेत् ॥ सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्व्वकर्म्मसु । यदन्यत् कुरुते किञ्चित् न तस्य फलमाप्नुयात् ॥ अनन्यचेतसः शान्ता ब्राह्मणा वेदपारगाः । उपास्य विधिषत् सन्ध्यां प्राप्ताश्च परमां गतिम् ॥ योऽन्यत्र कुरुते यत्नाद्धर्म्मकार्य्यं द्विजोत्तमः । विहाय सन्ध्याप्रणतिं स याति नरकायुतम् ॥ तस्मात् सर्व्वप्रयत्नेन सन्ध्योपासनमाचरेत् । उपासितो भवेत्तेन देवो योगतनुः परः ॥ सहस्रपरमां नित्यं शतमध्यां दशावराम् । सावित्रीं वै जपेद्बिद्बान् प्राङ्मुखः प्रयतः स्थितः ॥ अथोपतिष्ठेदादित्यमुदयन्तं समाहितः । मन्त्रैस्तु विविधैः सौरैरृग्यजुःसामसम्भवैः ॥ उपस्थाय महायोगं देवदेवं दिवाकरम् । कुर्व्वीत प्रणतिं भूमौ मूर्द्ध्ना नित्यञ्च मन्त्रतः ॥ * ॥
ॐ खं खखोल्काय शान्ताय कारणत्रयहेतवे । निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे ॥ नमस्ते घृणये तुभ्यं सूर्य्याय ब्रह्मरूपिणे । त्वमेव ब्रह्म परममापो ज्योती रसोऽमृतम् ॥ भूर्भुवः स्वस्त्वमोङ्कारः सर्व्वे रुद्राः सनातनाः । पुरुषः सन्महोऽतस्त्वां प्रणमामि कपर्द्दिनम् ॥ त्वमेव विश्वं बहुधा सदसत् सूयसे च यत् । नमो रुद्राय सूर्य्याय त्वामहं शरणं गतः ॥ प्राचेतसे नमस्तुभ्यमुमायाः पतये नमः । नमोऽस्तु नीलग्रीवाय नमस्तुभ्यं पिनाकिने ॥ विलोहिताय भर्गाय सहस्राक्षाय ते नमः । नम उमापतये तुभ्यमादित्याय नमोऽस्तु ते ॥ नमस्ते बहुहस्ताय त्र्यम्बकाय नमोऽस्तु ते । प्रपद्ये त्वां विरूपाक्ष ! महान्तं परमेश्वरम् ॥ हिरण्मये गृहे गुप्तमात्मानं सर्व्वदेहिनाम् । नमस्यामि परं ज्योतिर्ब्रह्माणं त्वां परामृतम् ॥ विश्वं पशुपतिं भीमं नरनारीशरीरिणम् । नमः सूर्य्याय रुद्राय भास्वते परमेष्ठिने । उग्राय सर्व्वभक्ष्याय त्वां प्रपद्ये सदैव हि ॥ * ॥
एतद्वै सूर्य्यहृदयं जप्त्वा स्तवमनुत्तमम् । प्रातःकालेऽथ मध्याह्ने नमस्कुर्य्याद्दिवाकरम् ॥ इदं पुत्त्राय शिष्याय धार्म्मिकाय द्बिजातये । प्रदेयं सूर्य्यहृदयं ब्रह्मणा तु प्रदर्शितम् ॥ सर्व्वपापप्रशमनं वेदसारं समुद्धृतम् । ब्राह्मणानां हितं पुण्यं ऋषिसंघैर्निषेवितम् ॥ यस्तु नित्यं पठेद्धीमान् प्रेक्षन्नादित्यमण्डलम् । महापातकयुक्तोऽपि पूयते नात्र संशयः ॥ क्षयापस्मारकुष्ठाद्यैर्व्याधिभिः पीडितोऽपि सन् । जप्त्वा शतगुणं स्तोत्रं स श्लाघ्यो भवति द्रुतम् ॥ भूतग्रहपिशाचातिबीजव्यसनकर्षिभिः । स्तुवन् ध्यात्वा हरिं विप्रो मुच्यते महतो भयात् ॥ अथागत्य गृहं विप्रः समाचम्य यथाविधि । प्रज्वाल्य वह्निं विधिवज्जुहुयाज्जातवेदसम् ॥ ऋत्विक्पुत्त्रोऽथ पत्नी वा शिष्यो वापि सहो- दरः । प्राप्यानुज्ञां विशेषेण जुहुयुर्व्वा यथाविधि ॥ पवित्रपाणिः पूतात्मा शुक्लाम्बरधरोत्तरः । अनन्यमानसो भूत्वा जुहुयात् संयतेन्द्रियः ॥ विना दर्भेण यत् कर्म्म विना मन्त्रेण वा पुनः । राक्षसं तद्भवेत् सर्व्वं नामुत्रेह फलप्रदम् ॥ * ॥
दवतानि नमस्कुर्य्याद्देयमारान्निवेदयेत् । दद्यात् पुष्पादिकं तेषां वृद्धांश्चैवाभिवादयेत् ॥ गुरुञ्चैवाभ्युपासीत हितञ्चास्य समाचरेत् । वेदाभ्यासं ततः कुर्य्यात् प्रयत्नाद्भक्तितो द्विजः ॥ जपेदध्यापयेच्छिष्यान् श्रावयेच्च विधारयेत् । अवेक्षेत च शास्त्राणि धर्म्मादीनि द्विजोत्तमः ॥ वैदिकांश्चैव नियमान् वेदाङ्गानि विशेषतः । उपेयादीश्वरञ्चाथ योगक्षेमप्रसिद्धये ॥ साधयेद्विविधानर्थान् कुटम्बार्थे ततो द्बिजः ॥” इति कौर्म्मे उपविभागे १७ अध्यायः ॥ * ॥
अपि च । “प्रातः शिरसि शुक्लाब्जे द्विनेत्रं द्बिभुजं गुरुम् । प्रसन्नवदनं शान्तं स्मरेत्तन्नामपूर्ब्बकम् ॥” ॐ नमो गुरवे तस्मा इष्टदेवस्वरूपिणे । यस्य वाक्यामृतं हन्ति विषं संसारसंज्ञकम् ॥” इति पठेत् ॥ “अहं देवो न चान्योऽस्मि ब्रह्मैवास्मि न शोक- भाक् । सच्चिदानन्दरूपोऽहं नित्यमुक्तस्वभाववान् ॥” इति भावयेत् । “लोकेश ! चैतन्यमयादिदेव श्रीकान्त विष्णो भवदाज्ञयैव । प्रातः समुत्थाय तव प्रियार्थं संसारयात्रामनुवर्त्तयिष्ये ॥ जानामि धर्म्मं न च मे प्रवृत्ति- र्जानाम्यधर्म्मं न च मे निवृत्तिः । त्वया हृषीकेश ! हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि ॥” विष्णुपुराणे । “प्रबुद्धश्चिन्तयेद्धर्म्ममर्थञ्चास्याविरोधिनम् । अपीडया तयोः काममुभयोरपि चिन्तयेत् ॥” धर्म्मलक्षणन्तु भविष्ये । “धर्म्मः श्रेयः समुद्दिष्टं श्रेयोऽभ्युदयसाधनम् ॥” अतएव जैमिनिः । चोदनालक्षणोऽर्थो धर्म्म इति । तेन वैदिकलिङ्प्रतिपाद्योऽर्थो धर्म्मः । कोऽर्थो योऽभ्युदयाय इति तु भविष्ये ॥ * ॥
ततः ॐ प्रियदत्तायै भुवे नमः । इति नमस्कृत्य दक्षिणं चरणं न्यसेत् । छन्दोगपरिशिष्टम् । “श्रोत्रियं सुभगामग्निं गाञ्चैवाग्निचितं तथा । प्रातरुत्थाय यः पश्येदापद्भ्यः स विमुच्यते ॥ पापिष्ठं दुर्भगां मद्यं नग्नमुत्कृत्तनासिकम् । प्रातरुत्थाय यः पश्येत्तत् कलेरुपलक्षणम् ॥” अतएव व्यासः । “धनिनः श्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः । पञ्च यत्र न विद्यन्ते तत्र वासं न कारयेत् ॥” महाभारते । “कर्कोटकस्य नागस्य दमयन्त्या नलस्य च । ऋतुपर्णस्य राजर्षेः कीर्त्तनं कलिनाशनम् ॥” मात्स्ये । “कार्त्तवीर्य्यार्ज्जुनो नाम राजा बाहुसहस्रभृत् । योऽस्य संकीर्त्तयेन्नाम कल्यमुत्थाय मानवः ॥ न तस्य वित्तनाशः स्यान्नष्टञ्च लभते पुनः ॥” कल्यं प्रातः ॥ * ॥
अथ विण्मूत्रोत्सर्गः । विष्णुधर्म्मोत्तरे । “निद्रां जह्याद्गृही राम ! नित्यमेवारुणोदये । वेगोत्सर्गं ततः कृत्वा दन्तधावनपूर्ब्बकम् ॥ स्नानं समाचरेत् प्रातः सर्व्वकल्मषनाशनम् ॥” अरुणोदयकालमाह स्कन्दपुराणम् । “उदयात् प्राक् चतस्रस्तु नाडिका अरुणोदयः । तत्र स्नानं प्रशस्तं स्यात्तद्धि पुण्यतमं स्मृतम् ॥” नाडिका दण्डः । विष्णुधर्म्मोत्तरे । “वेगरोधं न कर्त्तव्यमन्यत्र क्रोधवेगतः ।” आयुर्व्वेदीयेऽपि । न वेगितोऽन्यकार्य्यसिद्धिः स्यान्नाजित्वा साध्यमामयम् । अङ्गिराः । “उत्थाय पश्चिमे रात्रेस्तत आचम्य चोदकम् । अन्तर्द्धाय तृणैर्भूमिं शिरः प्रावृत्य वाससा ॥ वाचं नियम्य यत्नेन ष्ठीवनोच्छासवर्ज्जितः ॥ कुर्य्यान्मूत्रपुरीषे तु शुचौ देशे समाहितः ॥” विष्णुपुराणम् । “ततः कल्यं समुत्थाय कुर्य्यान्मैत्रं नरेश्वर ! । नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः ॥ तिष्ठेन्नातिचिरं तत्र नैव किञ्चिदुदीरयेत् ॥” कल्यमुषःकालम् । मैत्रं मित्रदेवताकपायुसम्ब- न्धात् पुरीषोत्सर्गः । नैरृत्यामुत्थानदेशमारभ्य उत्थायेत्यनेन उपस्थितेः इषुप्रक्षेपयोग्यदेशा- द्बहिः । तद्देशपरिमाणमाह पितामहः । “मध्यमेन तु चापेन प्रक्षिपेत्तु शरत्रयम् । हस्तानाञ्च शते सार्द्धे लक्ष्यं कृत्वा विचक्षणः ॥” आपस्तम्बः । “मूत्रपुरीषोत्सर्गं कुर्य्याद्दक्षिणां दिशं दक्षिणा- परां वेति ।” दक्षिणापरां नैरृतीम् । मनुः । “मूत्रोच्चारसमुत्सर्गं दिवा कुर्य्यादुदङ्मुखः । दक्षिणाभिमुखो रात्रौ सन्ध्ययोश्च यथा दिवा ॥” यत्तु यमवचनम् । “प्रत्यङ्मुखश्च पूर्ब्बाह्णे त्वपराह्णे च प्राङ्मुखः । उदङ्मुखस्तु मध्याह्ने निशायां दक्षिणामुखः ॥” इति तदिच्छाविकल्पार्थं सूर्य्याभिमुखनिरा- सार्थञ्च न तु नियमार्थं देवलवचनविरोधात् । तथा च देवलः । “सदैवोदङ् मुखः प्रातः सायाह्ने दक्षिणामुखः । विण्मूत्रमाचरेन्नित्यं सन्ध्यायां परिवर्ज्जयेदिति ॥” अत्र प्रातःसायाह्नशब्दौ दिवारात्रिपरौ पूर्ब्बोक्तमनुवचनैकवाक्यत्वात् । सन्ध्यायां परि- वर्ज्जयेदिति तु पीडितेतरपरम् ॥ * ॥
यमः । “कृत्वा यज्ञोपवीतन्तु पृष्ठतः कण्ठलम्बितम् । विण्मूत्रे च गृही कुर्य्याद्यद्वा कर्णे समाहितः ॥” पृष्ठतः पृष्ठे कण्ठलम्बितं निवीतं तत् पृष्ठ- लम्बितं निवीतमापृष्ठदेशावलम्बं ग्राम्यधर्म्मेष्विति निगमपरिशिष्टवचनात् । “नियम्य प्रयतो वाचं संवीताङ्गोऽवगुण्ठितः ॥” इति मनुवचनाच्च ॥ अत्र संवीतं निवीतं संवीतं मानुष इति तैत्ति- रीयश्रुतेः । मानुषे सनकादिकृत्ये । पृष्ठलम्बितं निवीती वेति वौधायनीयाच्च । ततश्च हारवत् कृत्वा पृष्ठलम्बितं स्कन्धे इत्यर्थः । एकवस्त्रता- पक्षे व्यवस्थामाह सांख्यायनः । यद्येकवस्त्रो यज्ञोपवीतं कर्णे कृत्वा अवगुण्ठित इति । कर्णे दक्षिणे । पवित्रं दक्षिणे कर्णे विण्मूत्रमाचरे- दिति स्मृतौ तथा दर्शनात् । अवगुण्ठितः कृत- शिरोऽवगुण्ठनः । मनुः । “छायायामन्धकारे वा रात्रावहनि वा द्बिजः । यथासुखमुखः कुर्य्यात् प्राणवाधभयेषु च ॥” महाभारते । “प्रत्यादित्यं प्रतिजलं प्रति गाञ्च प्रति द्विजम् । मेहन्ति ये च पथिषु ते भवन्ति गतायुषः ॥” प्रतिः सांमुख्ये ॥ * ॥
मनुः । “न मूत्रं पथि कुर्व्वीत न भस्मनि न गोव्रजे । न फालकृष्टे न जले न चित्यां न च पर्व्वते ॥ न जीर्णदेवायतने न वल्मीके कदाचन । न ससत्त्वेषु गर्त्तेषु न गच्छन्नापि संस्थितः ॥ न नदीतीरमासाद्य न च पर्व्वतमस्तके । गवाग्निविप्रानादित्यमपः पश्यंस्तथैव च ॥ न कदाचन कुर्व्वीत विण्मूत्रस्य विसर्ज्जनम् । ससत्त्वेषु प्राणिमत्सु । संस्थित उत्थितः पर्व्वतनिषेधादेव मस्तकनिषेधे सिद्धे पुनर्निषेधं यत्र पर्व्वतोऽशक्यपरीहारस्तत्रापि मस्तकवर्ज्ज नार्थः । अथवा । पर्व्वतमस्तकनिषेधोऽधिक दोषाय ॥ * ॥
वशिष्ठः । “आहारनिर्हारविहारयोगाः सुसंवृता धर्म्मविदा तु कार्य्याः । वाग्बुद्धिगुप्ती च तपस्तथैव धनायुषी गुप्ततमे तु कार्य्ये ॥” निर्हारो मूत्रपुरीषोत्सगः । विहारः स्त्रीसं- भोगः । योगः समाधिः । वाग्गुप्तिरशुभालाप- त्यागः । बुद्धिगुप्तिरनिष्टचिन्तात्यागः । हारीतः । “आहारन्तु रहः कुर्य्यान्निर्हारञ्चैव सर्व्वदा । गुप्ताभ्यां लक्ष्म्यपेतः स्यात् प्रकाशे हीयते तथा ॥” विष्णुपुराणम् “सोमाग्न्यर्काम्बुवायूनां पूज्यानाञ्च न संमुखम् । कुर्य्यात् ष्ठीवनविण्मूत्रसमुत्सर्गञ्च पण्डितः ॥” आपस्तम्बः । “न च सोपानत्को मूत्रपुरीषे कुर्य्यादिति ।” बृहन्मनुः । “करगृहीतपात्रेण कृत्वा मूत्रपुरीषके । मूत्रतुल्यन्तु पानीयं पीत्वा चान्द्रायणञ्चरेत् ॥” भरद्वाजः । “अथावकृष्यविण्मूत्रं लोष्टकाष्ठतृणाद्विना । उदस्तवासा उत्तिष्ठेद्दृढं विधृतमेहनः ॥” * ॥
उदस्तवासाः कटिदेशादूर्द्ध्वक्षिप्तवस्त्रः । अथ शौचम् । देवलः । “धर्म्मविद्दक्षिणं हस्तमधःशौचे न योजयेत् । तथैव वामहस्तेन नाभेरुर्द्ध्वं न शोधयेत् । प्रकृतिस्थितिरेषा स्यात् कारणादुभयक्रिया ॥” कारणाद्रोगादेः । ब्रह्माण्डपुराणम् । “उद्धृतोदकमादाय मृत्तिकाञ्चैव वाग्यतः । उदङ्मुखो दिवा कुर्य्याद्रात्रौ चेद्दक्षिणारुखः ॥ सुनिर्निक्ते मृदं दद्यान्मृदन्ते त्वप एव च ॥” कुर्य्याच्छौचमिति शेषः । सुनिर्निक्ते भरद्वाजोक्त- लोष्टादिप्रमृष्टे गुदे । उदकपात्राभावे करेण जलाशयात् उदकग्रहणमाह आदित्यपुराणम् । “रत्निमात्रं जलं-त्यक्त्वा कुर्य्याच्छौचमनुद्धृते । पश्चाच्च शोधयेत्तीर्थमन्यथा न शुचिर्भवेत् ॥” तस्मिन् देशे शौचं कर्त्तव्यं यस्माद्रत्निमात्रव्यव- हितं जलं तत्स्थलमेव तीर्थं जलसमीपत्वात् ॥ * ॥
विष्णुपुराणम् । “वल्मीकमूषिकोत्खातां मृदमन्तर्जलान्तथा । शौचावशिष्टां गेहाच्च नादद्याल्लेपसम्भवाम् ॥ अन्तःप्राण्यवपन्नाञ्च हलोत्खातां सकर्द्दमाम् ॥” मनुदक्षौ । “एका लिङ्गे गुदे तिस्रस्तथा वामकरे दश । उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सता ॥” उभयोः करयोः । वामहस्ते दशदानानन्तरं तत्पृष्ठे षड्दानमाह हारीतः । दशमध्ये च षट् पृष्ठे इति । शङ्खदक्षौ । “तिस्रस्तु मृत्तिका देयाः कृत्वा तु नखशोधनम् । तिस्रस्तु पादयोर्देयाः शुद्धिकामेन नित्यशः ॥” नखशोधनं तृणादिना नखान्तर्मलशोधनम् । तिस्र इति हस्तयोरिति शेषः ॥ * ॥
पादप्रक्षालनं न कांस्ये कर्त्तव्यमित्याह विष्णु- धर्म्मोत्तरम् । “दर्भैर्न मार्ज्जयेत् पादौ न च कांस्ये प्रधावयेत् ॥” दक्षः । “लिङ्गे तत्र समाख्याता त्रिपर्व्वी पूर्य्यते यया । अर्द्धप्रसृतिमात्रा तु प्रथमा मृत्तिका स्मृता ॥ द्बितीया च तृतीया च तदर्द्धं परिकीर्त्तितम् ॥” यदा तु उक्तप्रमाणया मृदा गन्धलेपक्षयो न भवति तदा अधिकयापि कर्त्तव्यम् । “गन्धलेपक्षयकरं शौचं कुर्य्यादतन्द्रितः ॥” इति याज्ञवल्क्यवचनात् ॥ गुदादन्यत्र परिमाणमाह यमः । “मृत्तिका तु समुद्दिष्टा त्रिपर्व्वी पूर्य्यते यया ।” त्रिपर्व्वी तर्ज्जनीमध्यमानामिकानामग्रपर्व्व- त्रयम् ॥ * ॥
मूत्रमात्रे तु स्मृतिः । “एकां लिङ्गे मृदं दद्यात् वामहस्ते तु मृत्त्रयम् । उभयोर्हस्तयोर्द्वे तु मूत्रशौचं प्रकीर्त्तितम् ॥” ब्रह्मपुराणे । “पादयोर्द्वे गृहीत्वा च सुप्रक्षालितपाणिमान् । द्विराचम्य ततः शुद्धः स्मृत्वा विष्णुं सनातनम् ॥” पादयोर्द्वे एकैका । इदं मूत्रे पुरीषोत्सर्गे तिसृणां विधानात् ॥ * ॥
दक्षः । “यथोदितं दिवा शौचमर्द्धं रात्रौ विधीयते । आतुरे च तदर्द्धं स्यात् तदर्द्धन्तु पथि स्मृतम् ॥” यथोक्तकरणाशक्तावेवेदं न तु निशादिपुरस्कारे- णैव वाक्यस्यादृष्टार्थतापत्तेः ॥ * ॥
आपस्तम्बः । “पथि पादस्तु विज्ञेय आर्त्तः कुर्य्याद्यथाबलम् ।” एतयोर्व्विरोधस्तु आर्त्तानार्त्ताभ्यां परिहर- णीयः । दक्षः । “देशं कालं तथात्मानं द्रव्यं द्रव्यप्रयोजनम् । उपपत्तिमवत्थाञ्च ज्ञात्वा शौचं प्रकल्पयेत् ॥” ब्रह्मपुराणे । “न यावदुपनीयेत द्विजः शूद्रस्तथाङ्गना । गन्धलेपक्षयकरं शौचं तेषां विधीयते ॥ प्रमाणं शौचसंख्या वा न शिष्टैरुपदिश्यते । यावच्च शुद्धिं मन्येत तावत शौचं समाचरेत् ॥” दक्षः । “न्यूनाधिकं न कर्त्तव्यं शौचं शुद्धिमभीप्सता । प्रायश्चित्तं प्रसज्जेत विहितातिक्रमे कृते ॥ शौचाचारविहीनस्य समस्ता निष्फलाः क्रियाः ॥” गन्धलेपक्षये सत्यधिकं न कर्त्तव्यं पूर्ब्बोक्तयाज्ञ- वल्क्यविरोधात् । गन्धलेपाक्षये त्वधिकसंख्य- यापि । याज्ञवल्क्यवचनमनुपनीतादिपरं वा पूर्ब्बोक्तब्रह्मपुराणैकवाक्यत्वात् ॥ * ॥
“एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । त्रिगुणन्तु वनस्थानां यतीनाञ्च चतुर्गुणम् ॥” इदन्तु द्बैमुण्यादिकं संख्यामात्रे तदनन्तराभि- धानात् । व्याघ्रपादः । “शौचन्तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा । मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिस्तथापरम् ॥ गङ्गातोयेन कृत्स्नेन मृद्भारैश्च नगोपमैः । आमृत्योः स्नातकश्चैव भावदुष्टो न शुध्यति ॥” स्मृतिः । “धावन्तञ्च प्रमत्तञ्च मूत्रोच्चारकृतन्तथा । भुञ्जानमाचमानञ्च नास्तिकं नाभिवादयेत् ॥ जन्मप्रभृति यत्किञ्चित् चेतसा धर्म्ममाचरेत् । सर्व्वं तन्निष्फलं याति एकहस्ताभिवादनात् ॥” ऋष्यशृङ्गः । “यस्मिन् स्थाने कृतं शौचं वारिणा तद्विशो- धयेत् । न शुद्धिस्तु भवेत्तस्य मृत्तिकां यो न शोधयेत् ॥” शौचानन्तरं हारीतः । गोमयेन मृदा वा कमण्डलुं प्रमृज्य पूर्ब्बवदुपस्पृश्य आदित्यं सोम- मग्निं वा वीक्षेतेति । अत्र मार्जनानन्तरं क्षलनं अन्यत्र तथादर्शनात् । आचमनान- न्तरं आदित्यादिदर्शनं यथासम्भवम् । शौचं कृत्वा मूत्रोच्चारं न पश्येत् दृष्ट्वादित्यमग्निं सोमं वा पश्येदिति ॥ * ॥
अथाचमनविधिः । दक्षः । “प्रक्षाल्य पाणी पादौ च त्रिः पिबेदम्बु वीक्षि- तम् । संवृत्याङ्गुष्ठमूलेन द्विः प्रमृज्यात्ततो मुखम् ॥ संहत्य तिसृभिः पूर्ब्बमास्यमेवमुपस्पृशेत् । अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम् ॥ अङ्गुष्ठानामिकाभ्याञ्च चक्षुःश्रोत्रे पुनः पुनः । नाभिं कनिष्ठाङ्गुष्ठेन हृदयन्तु तलेन वै ॥ सर्व्वाभिस्तु शिरः पश्चाद्बाहू चाग्रेण संस्पृशेत् ॥” पादप्रक्षालनं विशेषयति देवलः । “प्रथमं प्राङ्मुखः स्थित्वा पादौ प्रक्षालयेत् शनैः । उदङ्मुखो वा दैवत्ये पैतृके दक्षिणामुखः ॥” शनैरत्वरः । दैवपैतृकेतरत्रापस्तम्बः । प्रत्यक्- पादावसेचनमिति । प्रत्यक् पश्चिमाभिमुखः । क्रममाह गोभिलः । सव्यं पादमवनेनिज इति सव्यं पादं प्रक्षालयेत् । दक्षिणं पादमवनेनिज इति दक्षिणं पादं प्रक्षालयेदिति अर्हणीये तथादर्शनात् सर्व्वत्र तथा कल्प्यते । पारस्करः । सव्यं पादं प्रक्षाल्य दक्षिणं प्रक्षालयतीति सूत्रेण प्राक् सव्यपादप्रक्षालने सिद्धे सव्यं प्रक्षाल्य दक्षिणं प्रक्षालयतीत्यत्र सव्यग्रहणं सामान्यार्थं तेनान्यस्यापि पादप्रक्षालने सव्यस्यैव प्राथम्यम् अन्यार्थं पुनर्व्वचनमिति न्यायात् । अन्यार्थमधि- कार्थम् । ब्राह्मणश्चेद्दक्षिणं प्रथममिति सूत्रं तस्य पादौ यदि ब्राह्मणः प्रक्षालयति तदा दक्षिणं प्रथममिति न सव्यम् । यथा प्रक्षाल- यतीत्यनुवृत्तौ आश्वलायनः । दक्षिणमग्रे ब्राह्म- णाय प्रयच्छेत् सव्यं शूद्रायेति । स्वयं प्रक्षालने सव्यस्यैव प्राथम्यमिति एवं हरिशर्म्मापि । आचमने पाणिपादप्रक्षालनं मूत्राद्यत्मर्गे । यथा वृद्धपराशरः । “कृत्वाथ शौचं प्रक्षाल्य हस्तौ पादौ च मृज्जलैः । निबद्धशिख आसीनो द्विज आचमनञ्चरेत् ॥ कृत्वोपवीतं सव्यांशे वाङ्मनःकायसंयतः ॥” आपस्तम्बः । “इत्येवमद्भिराजानु प्रक्षाल्य चरणौ पृथक् । हस्तौ चामणिबन्धाभ्यां पश्चादासीत संयतः ॥” आजानु आमणिबन्धाभ्यामित्यवध्युपादानं तत्- पर्य्यन्ताशुचित्वशङ्कायां अध्वश्रमापनोदनाय अतिशयशौचाय वा । अतएवोक्तं अङ्गप्रकर्षात् फलप्रकर्ष इति ॥ * ॥
शिखाबन्धने विशेषमाह ब्रह्मपुराणम् । “गायत्त्र्या तु शिखां बद्ध्वा नैरृत्यां ब्रह्मरन्ध्रतः । जुटिकाञ्च ततो बद्ध्वा ततः कर्म्म समाचरेत् ॥” * ॥
पिबेदित्यत्रान्तर्जान्वाह याज्ञवल्क्यः । “अन्तर्जानु शुचौ देशे उपविष्ट उदड्मुखः । प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्यमुपस्पृशेत् ॥” अन्तर्जानु जानुनोर्म्मध्ये हस्तौ कृत्वेति शेषः । वाशब्दादीशानाभिमुखः । “ईशानाभिमुखो भूत्वोपस्पृशेत्तु यथाविथि ॥” इति मरीच्युक्तेः ॥ ब्राह्मेण तीर्थेन अङ्गुष्ठमूलेन । “कनिष्ठदेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च । प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् ॥” इति याज्ञवल्क्यात् ॥ देशिनी तर्ज्जनी । करस्य दक्षिणस्य । यथा मार्कण्डेयपुराणम् । “अङ्गुष्ठोत्तरतो रेखा या पाणेर्दक्षिणस्य च । एतद्ब्राह्ममिति ख्यातं तीर्थमाचमनाय वै ॥” अत्र द्विजो न स्त्रीशूद्राविति मिताक्षरा ॥ अत- एव । “स्त्रियास्त्रैदशिकं तीर्थं शूद्रजातेस्तथैव च । सकृदाचमनाच्छुद्धिरेतयोरेव चोभयोः ॥” ब्राह्मतीर्थावरोधे तु मनुः । “कायत्रैदशिकाभ्यां वा न पैत्र्येण कदाचन ।” उक्ततीर्थत्रयस्य ब्रणादिनावरोधे करमध्यात्म- काग्नेयेनापि । एवञ्च सर्व्वाविरोधे सुवर्णादि- पात्रेणाप्याचमनं कार्य्यं स्वयमसामर्थेऽन्येनाच- मनं कारयितव्यम् । याज्ञवल्क्यः । “अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनवुद्वुदः । हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्बिजातयः ॥ शुध्येरन् स्त्री च शूद्रश्च सकृत् स्पृष्ठाभिरन्ततः ॥” अन्ततः ओष्ठोपान्ते । उत्तरोत्तरमुपकर्षात् । अतएव स्पृष्टाभिरित्युक्तं न तु भक्षिताभिरिति । स्त्री शूद्रो वाथ नित्याम्भः क्षालनाच्च करोष्ठयो- रिति ब्रह्मपुराणाच्च । आचमनार्थे पाणिपाद- प्रक्षालनमेवेत्येके । इति शूद्राधिकारे गोतमो- क्तेश्च । आचमनार्हजलाभावे इदमित्याचारा- ध्यायः । मनुः । “हृद्गाभिः पूयते विप्रः कण्ठगाभिश्च भूमिपः । वैश्योऽद्भिः प्राशिताभिश्च शूद्रः स्पृष्टाभिर- न्ततः ॥” अत्र वश्यावधिप्राशनमुक्तम् । अनुपनीतानान्तु स्त्रीशूद्रवदाचमनं न यावदुपनीयेत । इति प्रागुक्तशौचे तथादर्शनात् मिताक्षरादयो- ऽप्येवम् । अम्बु विशेषयति वौधायनः । पाद- प्रक्षालनाच्छेषेण नाचामेत यद्याचामेत् भूमौ स्रावयित्वाचामेदिति । उशनाः । “कांस्यायसेन पात्रेण त्रपुसीसकपित्तलः । आचान्तः शतकृत्वोऽपि न कदाचिच्छुचि- र्भवेत् ॥” कांस्यादिपात्रकरणकाचमनं कांस्यायसेनेत्या- दिना निषिद्बमिति केचित् । हस्तेनाचमनेऽपि कांस्यादिपात्रावर्ज्जितं तन्निषिद्धमित्यपरे । आचमनजलनिषेधे शङ्खलिखितौ । न शूद्रा शुच्येकपाण्या वर्ज्जितेनेति अत्राशुचिपदम् आचमनकर्त्तृभिन्नपरम् । शूद्रसाहचर्य्यात् एक पाणिपदमपि आचमनकर्त्तृभिन्नपाणिपरम् । तेन स्वीयवामपाण्यावर्ज्जितमनिषिद्धम् । तथा च कमण्डल्वधिकारे बौधायनः । मूत्रपुरीषे कुर्व्वन् दक्षिणहस्तेन गृह्णाति सव्येनाचमनीय- मिति । गृह्णाति जलपात्रमिति शेषः । आचा- मेदित्यनुवृत्तौ देवलः । “शिखां बद्धा वसित्वा द्वे निर्निक्ते वाससी शुभे । तूष्णीं भूत्वा समादाय नोद्गच्छन्नविलोकयन् ॥” एकवस्त्राः प्राचीनावीतिन इत्यादिपारस्कर- दर्शनात् यत्र प्रेतस्नानतर्पणादौ एकवस्त्रत्वं विहितं तत्र तदङ्गत्वादेकवासा एवाचमनं कुर्य्यात् । प्रचेताः । “अनुष्णाभिरफेनाभिः पूताभिर्वीक्ष्य चक्षुषा । हृद्गताभिरशब्दाभिस्त्रिश्चतुर्व्वाद्भिराचमेत् ॥” चतुर्व्वेति भावशुद्ध्यपेक्षया विकल्पः । न तु फलभूयस्त्वार्थं कल्पनागौरवापत्तेः । वीक्षणा- नुष्णयोर्भट्टभाष्यमाधवाचार्य्यकृतपराशरभाष्य- योरपवादमाह यमः । “रात्राववीक्षितेनापि शुद्धिरुक्ता मनीषिभिः । उदके नातुराणाञ्च तथोष्णेनोष्णपायिनाम् ॥” आचामेदित्यनुवृत्तौ वशिष्ठः । प्रदरादपि या गोस्तर्पणाय स्युर्न वर्णरसदुष्टाभिर्याश्च स्युरशु- भागमा इति । प्रदरो विदीर्णभूभागः । अशु- भागमाः अशुचिदेशादागताः । यस्मिन् देशे वर्णादिदुष्टमेव तोयं तत्र तदपि ग्राह्यम् । तथा च मरीचिः । “येषु स्थानेषु यच्छौचं धर्म्माचारश्च यादृशः । तत्र तन्नावमन्येत धर्म्मस्तत्रैव तादृशः ॥ येषु स्थानेषु ये देवा येषु देशेषु ये द्बिजाः । येषु स्थानेषु यत्तोयं या च यत्रैव मृत्तिका ॥” आचमने उदकग्रहणप्रकारं परिमाणञ्चाह भरद्वाजः । “आयतं पर्व्वणां कृत्वा गोकर्णाकृतिवत् करम् । संहताङ्गुलिना तोयं गृहीत्वा पाणिना द्विजः ॥ मुक्ताङ्गुष्ठकनिष्ठाभ्यां शेषेणाचमनञ्चरेत् । माषमज्जनमात्रास्तु संगृह्य त्रिः पिबेदपः ॥” पाणिना दक्षिणेन । त्रिः पिबेद्दक्षिणेनापि इत्यादिपुराणोक्तेः । मार्कण्डेयः । “सपवित्रेण हस्तेन कुर्य्यादाचमनक्रियाम् । नोच्छिष्टं तत्पवित्रन्तु भुक्तोच्छिष्टन्तु वर्ज्जयेत् ॥” मदनपारिजाते हारीतः । “ग्रन्थिर्यस्य पवित्रस्य न तेनाचमनञ्चरेत् ॥” ग्रन्थनाद्ग्रन्थिरिति समुद्रकरेऽपि । आचमना- नुवृत्तौ देवलः । “न गच्छन्न शयानश्च न चलन्न परान् स्पृ शन् । न हसन्नैव संजल्पन्नात्मानञ्चैव वीक्षयन् ॥” चलन् कम्पमान इति रत्नाकरः ॥ आत्मानं आत्मस्थानं हृदयम् । वीक्षयन्निति स्वार्थे णिच् । “केशान्नीवीमधःकायं न स्पृशन् धरणीमपि । यदि स्पृशति चैतानि भूयः प्रक्षालयेत् करम् ॥” अधःकायं नाभेरधःप्रदेशम् । करं दक्षिणम् । आचमनानुवृत्तौ गोभिलः । “नान्तरीयैकदेशेन कल्पयित्वोत्तरीयकम् ॥” अन्तरीयमधःपरीधानं तदेकदेशमुत्तरीयं कृत्वा मरीचिः । “न बहिर्जानुस्त्वरया नासनस्थो न चोत्थितः । न पादुकास्थोऽन्यचित्तः शुचिः प्रयतमानसः ॥ उपस्पृश्य द्विजो नित्यं शुद्धः पूतो भवेन्नरः । भुक्त्रासनस्थो नाचामेन्नान्यकाले कदाचन ॥ जलस्थलोभयकर्म्मानुष्ठानार्थन्तु जलस्थलैकचर- णेनाचमनं कर्त्तव्यमित्याह पैठीनसिः । अन्त- रुदके आचान्तोऽन्तरेव शुद्धः स्यात् तस्मा- दन्तरेकं बहिरेकञ्च कृत्वा पादमाचामेत् सर्व्वत्र शुद्धो भवतीति । जले तूत्तिष्ठन्नाचामेत् । जानो- रुर्द्ध्वं जले तिष्ठन्नाचान्तः शुचितामियात् । अधस्तात् शतकृत्वोऽपि समाचान्तो न शुध्य- तीति विष्णूक्तेः । हारीतः । “आर्द्रवासा जले कुर्य्यात्तर्पणाचमनं जपम् । शुष्कवासाः स्थले कुर्य्यात्तर्पणाचमनं जपम् ॥” कात्यायनः । “स्नानमाचमनं होमं भोजनं देवतार्च्चनम् । प्रौढपादो न कुर्व्वीत स्वाध्यायं पितृतर्पणम् ॥ आसनारूढपादस्तु जानुनोर्जङ्घयोस्तथा । कृतावसक्थिको यस्तु प्रौढपादः स उच्यते ॥” आसनारूढपादः आसनारोपितपादतलः । जानुनोर्जङ्घयोः कृतावसक्थिको वस्त्रादिना कृतपृष्ठजानुजङ्घाबन्धः । तुद्बयेन भेदप्रतीतेः प्रौढपादस्य द्विविधत्वं प्रतीयते ॥ * ॥
अत्र च अनेकोद्बाह्ये दारुशिले भूमिसमे इष्टकाश्च सङ्कीर्णोभूता इति वौधायनवचनात्तथाविधे आरूढपादोऽपि कुर्य्यात् । व्यासः । “शिरः प्रावृत्य कण्ठं वा मुक्तकच्छशिखोऽपि वा । अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचि- र्भवेत् ॥” तथा । “अपः पाणिनखाग्रेण आचामेद्यस्तु ब्राह्मणः । सुरापानेन तत्तुल्यमित्येवमृषिरब्रवीत् ॥” संवृत्येति मुखं संवृत्य अलोमकोष्ठस्पर्शो यथा न भवतीति तात्पर्य्यम् । तथा च वशिष्ठः । “आचान्तः पुनराचामेद्बासो विपरिधाय च । ओष्ठौ च संस्पृश्य तथा यत्र स्यातामलोमकौ ॥” एवञ्च प्रागुक्तहारीतवचने ओष्ठयोर्म्मार्जनमुक्तं तत् सलोमकयोरेवेति । एतदनन्तरं वामहस्तं पादौ शिरश्च दक्षिणेन पाणिनाभ्युक्षयेत् । तथा च कामधेनावापस्तम्बः । त्रिराचामेत् हृद्गाभिस्त्रिरोष्ठौ परिमृजेत् द्विरित्येके दक्षिणेन पाणिना सव्यं प्रोक्ष्य पादौ शिरश्चेति । गोभिलः । त्रिराचामेत् द्विः परिमृजीत पादा- वभ्युक्ष्य शिरोऽभ्युक्षयेदिति इन्द्रियाण्यद्भिः स्पृशेत् अक्षिणी नासिके कर्णाविति । इन्द्रि- याणि इन्द्रियायतनानि इन्द्रियाणाममूर्त्तत्वात् । तिसृभिरिति तर्ज्जनीमध्यमानामिकाभिः ॥ * ॥
सर्व्वत्राङ्गुष्ठयोगेन आचमनकारणमाह पैठी- नसिः । अग्निरङ्गुष्ठस्तस्मात्तेनापि सर्व्वाणि स्थानानि स्पृशेत् । निष्ठीवनादावाचमनं यथा । वायुपुराणे । “निष्ठीवने तथाभ्यङ्गे तथा पादावसेचने । उच्छिष्ठस्य च सम्भाषादशुच्युपहतस्य च ॥ सन्देहेषु च सर्व्वेषु शिखां मुक्त्वा तथैव च । विना यज्ञोपवीतेन नित्यमेव उपस्य शेत् ॥ उष्ट्रवायससंस्पर्शे दर्शने चान्त्यवासिनाम् ॥” हारीतः । “स्त्रीशूद्रोच्छिष्टसंभाषणे मूत्रपुरीषोत्मर्गदर्शने देवमभिगन्तुकाम आचामेदिति ।” याज्ञवल्क्यः । “स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे । आचान्तः पुनराचामेद्बासो विपरिधाय च ॥” ब्रह्मपुराणे । “होमे भोजनकाले च सन्ध्ययोरुभयोरपि । आचान्तः पुनराचामेदन्यत्रापि सकृत् सकृत् ॥ द्विराचम्य ततः शुद्धः स्मृत्वा विष्णुं सनातनम् ॥” स्मृतिः । “क्षुते निष्ठीविते सुप्ते परिधानेऽश्रुपातने । कर्म्मस्थ एषु नाचामेत् दक्षिणं श्रवणं स्पृ शेत् ॥” अत्र हेतुमाह पराशरः । “प्रभासादीनि तीर्थानि गङ्गाद्याः सरितस्तथा । विप्रस्य दक्षिणे कर्णे वसन्ति मनुरब्रवीत् ॥” सांख्यायनः । “आदित्या वसवो रुद्रा वायुरग्निश्च धर्म्मराट् । विप्रस्य दक्षिणे कर्णे नित्यं तिष्ठन्ति देवतः ॥” पुराणसारवायुपुराणयोः । “यः कर्म्म कुरुते मोहादनाचन्यैव नास्तिकः । भवन्ति हि वृथा तस्य क्रियाः सर्व्वा न संशयः ॥” * ॥
अथ दन्तधावनम् । वृद्धशातातपः । “मुखे पर्य्युषिते नित्यं भवत्यप्रयतो नरः । तस्मात् सर्व्वप्रयत्नेन भक्षयेद्दन्तधावनम् ॥” श्राद्धदिनादौ तस्य वर्ज्यत्वं यथा । विष्णुः । “श्राद्धे जन्मदिने चैव विवाहेऽजीर्णसम्भवे । व्रते चैवोपवासे च वर्ज्जयेद्दन्तधावनम् ॥” दन्तधावनमद्यादुदङ्मुखः प्राङ्मुखो वेति ॥ * ॥
दन्तलग्नस्य दन्ततुल्यत्वं यथा । गोतमः । दन्तश्लिष्टे दन्तवदन्यत्र जिह्वाभिधर्षणात् प्राक् च्युतेरित्येके । च्युतेरास्राववद्व