वाचस्पत्यम्
प्रातराश || पु० अश + भावे घञ् ७ त० । प्रातःकालिके भोजने त्रिका०
शब्दकल्पद्रुमः
प्रातराशः || पुं, (अशनमिति । अश् + भावे घञ् । आशः । प्रातः प्रातःकाले आशो भोजनम् ।)
प्रातःकालीनभोजनम् । तत्पर्य्यायः । कल्यवर्त्तः २ । इति हेमचन्द्रः ॥ प्रातर्भोजनम् ३ । इति त्रिकाण्डशेषः ॥ कल्यजग्धिः ४ । इति जटा- धरः ॥ (यथा, भागवते । ३ । २ । २ । “यः पञ्चहायनो मात्रा प्रातराशाय याचितः । तन्नेच्छद्रचयन् यस्य सपर्य्यां बाललीलया ॥”)