वाचस्पत्यम्
प्रातिपदिक || त्रि० प्रतिपदायां तिथौ भवः “कालाट् ठञ्” पा० ठञ् । १ प्रतिपदायां तिथौ भवे २ तत्राविर्भूते वह्नौ पु० “आदौ प्रतिपदा येन त्वमुत्पन्नोऽसि पावक! । त्वत्पदात् प्रातिपदिकं संभविष्यन्ति देवताः” वराहपु० । ३ नाम्नि शब्दभेदे “यत् प्रातिपदिकं नाम तन्नाम्नो नातिरिच्यते” शब्दश० । तल्लक्षणन्तु “अर्थवदघातरप्रत्ययः प्रातिपदिकम्” “कृत्तद्धितससासाश्च” पा० व्याख्याते चैते सरलायामस्माभिः “अधातुरप्रत्यय इति पुंलिङ्गनिर्देशस्त परवल्लिङ्गं द्वन्द्व तत्पुरुषयोरित्यभिधानात् । एतत्सूत्रे परसूत्रे चार्थव- त्त्वमेतत्सज्ञाफलीभूतबिभक्तीतरसमभिव्याहारानपेक्षया लोकेऽर्थबोधजनकत्वम् अन्थथाऽधातुरिति पर्युदासेन व्याख्यानाद्वाऽर्थवत्त्वे सादृश्यग्रहणेन सिद्धे उत्तरसूत्रे कृदादीनामनर्थकानामसिद्धेश्चार्थवत्त्वग्रहणं व्यर्थं स्यात् । अहन्निति धातौ काण्डे इत्यादि प्रत्ययान्ते च एतत्- साद्यविभक्त्यनपेक्षत्वेऽपि तदितरानपेक्षत्वसत्त्वेऽपि अधातुरप्रत्यय इति तत्पर्युदासः । एकदेशवर्णेऽर्थबोध- जनकत्वाबावान्नातिप्रसङ्गः । अत्र प्रत्ययपदं प्रत्ययप्रत्य- यान्तपरं तन्त्रावृत्त्यैवोभयग्रहणादित्याह (प्रत्ययं प्रत्य- यान्तञ्चेति) सि० कौ०) । अतएव भाष्ये “न लोके केवलेन प्रत्ययेनार्थोऽवगम्यते केन तर्हि सप्रकृतिकेन” इत्युक्तम् ह- रिणाप्युक्तम् । “धात्वादीनां विशुद्धानां लौकिकार्थो न विद्यते । कृत्तद्धितानामर्थश्च केवलानामलौकिकः । प्रा- ग्विभक्तेस्तदन्तस्य तथैवार्थो न विद्यते” इति । भू सत्ता- यामित्यादौ कर्मण्यणित्यादौ चार्थकथनन्तु अलौकिकार्थ- कथनमात्रं प्रक्रियादशायामिति वेदितव्यम् “ब्राह्मणार्थो यथा नास्ति कश्चिद् ब्राह्मणकम्बले । देवदत्तादयो वाक्ये तथैव स्युर्निरर्थकाः” इत्युक्तेरखण्डवाक्यस्यापि बोधकत्वा- त्तस्यापि प्रातिपदिकत्वापत्त्या तदुत्तरं स्वादिप्रसङ्ग इति तन्निवारणायेदं नियमसूत्रमित्याह “पूर्वसूत्रेणेति” सि० कौ० । प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहणमिति न्यायादेव प्रत्ययान्तत्वलाभात् कृत्तद्धितादीनामपि प्रत्यय- त्वात् पूर्वसूत्रेण संज्ञासिद्धेरिति भावः । पदमिति स्वा- तन्त्र्येण प्रयोगार्हमर्थवदित्यर्थः । अनुकरणस्य शब्दमात्र परतया न प्रातिपदिकत्वमनुकरणस्यानितिपरस्य प्रयोगा- सत्त्वेऽपि इतिपरस्य पृथक् प्रयोगार्हत्वादिति गवि- त्ययमाहेत्यादौ न प्रसङ्गः” हरिणाप्युक्तम् । अतएव “गवित्याह भू सत्तायामितीदृशम् । न प्रातिपदिकं नापि पदं साधु तु तत् स्मृतम्” । प्रातिपदिकार्थे द्योत्ये प्रथ- मेव । तदर्थश्च नामार्थाः “स्वार्थो द्रव्यञ्च लिङ्गञ्च संख्या कर्मादिरेव च । अमी पञ्चैव नामार्थास्त्रवः कोषाञ्चिद- ग्निमाः” इत्युक्ताः । तत्र अलिङ्गा, नियतलिङ्गाश्च प्राति- पदिकार्थे प्रथमाया उदाहरणम्” सि० कौ० ।
शब्दकल्पद्रुमः
प्रातिपदिकः || पुं, (प्रतिपदि तिथौ भव इति । प्रतिपद् + “कालात् ठञ् ।” ४ । ३ । ११ । इति ठञ् ।)
अग्निः । यथा, —
“इत्थम्भूतो महानग्निर्ब्रह्मक्रोधोद्भवो महान् । उवाच देवं ब्रह्माणं तिथिर्मे दीयतां प्रभो ! ॥ यस्यामहं समस्तस्य जगतः ख्यातिमाप्नुयाम् ॥ ब्रह्मोवाच । देवानामथ यक्षाणां गन्धर्व्वाणाञ्च सत्तम ! । आदौ प्रतिपदा येन त्वमुत्पन्नोऽसि पावक ! ॥ त्वत्पदात् प्रातिपदिकं सम्भविष्यन्ति देवताः । अतस्ते प्रतिपन्नाम तिथिरेषा भविष्यति ॥” इति वराहपुराणम् ॥ (प्रतिपदे धातुभिन्नपदे भव इति । प्रति- पद + ठक् ।)
नाम्नि, क्ली । यथा । अधातुविभ- क्त्यर्थवत् प्रातिपदिकम् । इति सुपद्मव्याकरणम् ॥