वाचस्पत्यम्
प्रातिहर्त्त्र || न० प्रतिहर्तुर्भावः कर्म वा उद्गात्रा० अञ् । प्रतिहर्तृरूपस्य ऋत्विग्मेदस्य कर्मणि १ प्रतिहरणे २ तद्भावे च ।