संस्कृत-शब्दकोशः

प्रात्ययिक प्राथमिक

प्राथमकल्पिक

वाचस्पत्यम्

प्राथमकल्पिक ||‍ त्रि० प्रथकल्पे भवः ठक् । १ प्रथमारम्भोचिते वेदाध्ययनादौ । प्रथमं कल्पमधीते कल्पान्तत्वात् ठक् । ३ प्रथमकल्परूपशिक्षाग्रन्थाध्यायिनि अमरः ।


शब्दकल्पद्रुमः

प्राथमकल्पिकः || पुं, (प्रथमकल्प आद्यारम्भः प्रयोजनं यस्य । “प्रयोजनम् ।” ५ । १ । १०९ । इति ठञ् । यद्वा, प्रथमकल्पमधीते इति । विद्यालक्षणकल्पान्ताच्चेति वक्तव्यमिति ठक् ।)
प्रथमारब्धवेदाध्ययनः । प्रथमं शिक्षणीयं कल्पं शास्त्रमधीते यः इत्यर्थे ष्णिकः । तत्पर्य्यायः । शैक्षः २ । इत्यमरभरतौ ॥



Correction: