वाचस्पत्यम्
प्राथमिक || त्रि० प्रथमे भवः ठञ् । १ प्रथमभवे स्त्रियां ङीप् । प्रथममधीते प्रथम + ठक् । वेदादेः २ प्रथमाध्येतरि च ।
शब्दकल्पद्रुमः
प्राथमिकः || त्रि (प्रथमे भवः । प्रथम + ठञ् ।)
प्रथमभवः । यथा । यत्राविरलक्रमेण सिद्धि- सिषाधयिषानुमितयस्तत्र द्बितीयक्षणे पक्षता- सम्पत्त्यर्थं द्बितीयः सिषाधयिषाविरहो विशे- षणमस्तु सिद्धेः प्राथमिकस्तु किमर्थम् । इति पक्षताशिरोमणिः ॥