वाचस्पत्यम्
प्रादि || पु० उपसर्गसंज्ञार्थं पा० उक्ते शब्दभेदे स च गणः पा० ग० उक्तो यथा “प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत्(द्) अभि प्रति परि उप” एते प्रादयः । निस् दुस् सान्तौ “निसस्तपतावना सेवने इति (८ । ३ । १२०) सूत्रे निस इति निर्देशात् निष्कृतं दुष्कृतमित्युदाहृत्य “इदुदुपधस्य यो विसर्जनीयः” इति भाष्योक्तेश्च । निरः कुषः इति (७ । २ । ४६) “सु- दुरोरधिकरणे” इति च निर्देशात् रान्तावपि मनो० । उदिति दान्तोऽपि “उदोऽनूर्ध्वध्वेष्टायामिति” । “उपसर्गाः क्रियायोगे” पा० “गतिश्च” पा० प्रादयः क्रिया योगे उपसर्गसंज्ञा गतिसंज्ञाश्च स्युः” सि० कौ० ।