वाचस्पत्यम्
प्रादेश || पु० प्र + दिश—घञ् द्रीर्घः । १ तर्जनीसहितविस्तृताङ्गुद्वे अमरः २ देशमात्रे मेदि० “अङ्गुष्ठस्य प्रदेशिन्या व्यासः प्रादेश उच्यते” इत्युक्ते ३ परिसाणभेदे च देवीपु० ।
शब्दकल्पद्रुमः
प्रादेशः || पुं, (प्रदिश्यते इति । प्र + दिश् + हल- श्चेति घञ् । “उपसर्गस्य घञि” इति दीर्घः ।)
तर्ज्जनीसहितविस्तृताङ्गुष्ठः । इत्यमरः । २ । ६ । ८३ ॥ (यथा, महाभारते । ५ । ५१ । १९ । “प्रमाणतो भीमसेनः प्रादेशेनाधिकोऽर्ज्जुनात् ॥” प्रदेश एव । स्वार्थे अण् ।)
देशमात्रम् । यथा, “प्रादेशो देशमात्रे च तर्ज्जन्यङ्गुष्ठसम्मिते ॥” इति मेदिनी ॥ “अङ्गुष्ठस्य प्रदेशिन्या व्यासः प्रादेश उच्यते ॥” इति देवीपुराणञ्च ॥