वाचस्पत्यम्
प्रादोषिक is an alternate of प्रादोषक. प्रादोष(षि)क || त्रि० प्रदोषे भवः वा अण्ठञौ । प्रदोषभवे स्त्रियां ङीप् ।
शब्दकल्पद्रुमः
प्रादोषिकः || त्रि (प्रदोषस्यायमिति । प्रदोष + “निशाप्रदोषाभ्याञ्च ।” ४ । ३ । १४ । इति ठञ् ।)
प्रदोषसम्बन्धी । इति सिद्धान्तकौमुदी ॥