वाचस्पत्यम्
प्राध्व || त्रि० प्रकृष्टोऽध्वा अच्समा० । १ दूरपथे २ प्रह्वे नम्रे ३ बद्धे च हेमच० ब० व्री० । ४ वहुदूरगामिनि रथादौ च ।
शब्दकल्पद्रुमः
प्राध्वः || त्रि (प्रगतोऽध्वानमिति । “उपसर्गाद- ध्वनः ।” ५ । ४ । ८५ । इति अच् ।)
बहुदूर- गामि-रथादिः । इति वोपदेवः ॥ दूरपथः । प्रह्वः । बन्धः । इति हेमचन्द्रः ॥ (यथा, महा- भारते । ३ । १६२ । २७ । “ततः शक्तिं गदां खड्गं धनुश्च भरतर्षभः । प्राध्वं कृत्वा नमश्चक्रे कुवेराय वृकोदरः ॥”)
शब्दकल्पद्रुमः
प्राध्वं || व्य, (प्राध्वनतीति । प्र + आ + ध्वन + डम् ।)
अनुकूलम् । इत्यमरः । ३ । ४ । ४ ॥ (यथा, रघुः । १३ । ४३ । “सभाजने मे भुजमूर्द्ध्वबाहुः सव्येतरं प्राध्वमितः प्रयुङ्क्ते ॥”)