संस्कृत-शब्दकोशः

प्राप्ति प्राप्त्याशा

प्राप्तिसम

वाचस्पत्यम्

प्राप्तिसम ||‍ न० गौ० उक्ते जात्युत्तरभेदे “प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्या विशिष्टत्वात् प्राप्तिसमः” सृ० । “हेतुः प्राप्य वा साध्यं साधयेदप्राप्य वा? । न तावत् प्राप्य । प्राप्त्यामविशिष्टत्वादसाधकः द्वयोर्विद्यमानयोः प्राप्तौ सत्यां किं कस्य साधकं साध्यं वा? । अप्राप्यसाधकं न भवति । नाप्राप्तः प्रदीपः प्रकाशयतीति । प्राप्त्या प्रत्य- वस्थानं प्राप्तिसमः” वात्स्था० “प्राप्त्या विशेषादनिष्टा पादनेन प्रत्यवस्थानम्” गौ० वृ० ५ । ७ यथा आत्मा स क्रियः क्रियाहेतुगुणवत्त्वादित्यादौ क्रियाहेतुगुणवत्त्वेनैव किमिति क्रियावत्त्वं साध्यते । किमिति क्रियावत्त्वेन तादृशगुणवत्त्वं न? उभयोरविशेषादिति” ।



Correction: