संस्कृत-शब्दकोशः

प्राप्त्याशा प्राप्यकारिन्

प्राप्य

वाचस्पत्यम्

प्राप्य ||‍ त्रि० प्र + आप—ण्यत् । १ गम्ये २ लभ्ये च ३ व्याकर- णोक्ते “क्रियाकृतविशेषाणां सिद्धिर्यत्र न विद्यते । दर्शनादनुमानाद्वा तत्प्राप्यमिह कथ्यते” इत्युक्ते ४ कर्म- भेदे कर्मन्शब्दे १७३० पृ० दृश्यम् । प्र + आप—ल्यप् । लब्ध्वेत्यर्थे अव्य० ।


शब्दकल्पद्रुमः

प्राप्यं || त्रि (प्र + आप् + ण्यत् ।)
प्राप्तव्यम् । तत्पर्य्यायः । गम्यम् २ समासाद्यम् ३ । इत्य- मरः । ३ । १ । ९२ ॥ (यथा, मार्कण्डेये । ६२ । २० । “मयैषा सानुरागेण बहुशः प्रार्थिता सती । निराकृतवती सेयमद्य पाप्या भविष्यति ॥” व्य, प्र + आप् + ल्यप् । यथा, मेघदूते । “प्राप्यावन्तीमुदयनकथाकोविदग्रामवृद्धान् ॥”)



Correction: