वाचस्पत्यम्
प्राबोधिक || पु० प्रबोधाय हितं ठक् । १ ऊषःकाले शब्दमा० प्रबोधः प्रवोधनं तत्र नियुक्तः तत्प्रयोजनमस्य वा ठञ् । २ मागधे प्रातःस्तुतिपाठकभेदे ।
शब्दकल्पद्रुमः
प्राबोधिकः || पुं, (प्रबोधाय हितः । प्रबोध + ठक् ।)
उषःकालः । इति शब्दमाला ॥ प्राबोधकोऽपि पाठः ॥