संस्कृत-शब्दकोशः

प्राभवत्य प्राभृत

प्राभाकर

वाचस्पत्यम्

प्राभाकर ||‍ न० प्रभाकरस्य इदम् तन्मातं येत्ति वा अण् । १ मीमांसकभेदप्रभाकरसम्बन्धिनि २ तन्मतज्ञे च ।


शब्दकल्पद्रुमः

प्राभाकरः || पुं, (प्रभाकरस्यायं तन्मतं वेत्तीति । प्रभाकर + अण् ।)
मीमांसकविशेषः । यथा, “व्याप्तिस्वरूपं निरूप्य परमतनिराकरणपूर्ब्बकं स्वमतेन तद्ग्रहीपायमभिधातुं प्रथमं प्राभा- करमतमुपदर्शयति सेयमित्यादिना ।” इति व्याप्तिग्रहोपायशिरोमणिः ॥ प्राभाकरमते व्याप्तेः सकृद्दर्शनगम्यत्वं यथा तस्मात् परिशेषेण सकृद्दर्शनगम्या सा । इति व्याप्तिग्रहोपाय- चिन्तामणिः ॥



Correction: