वाचस्पत्यम्
प्रायस् || अव्य० प्र + अय—असि । १ बाहुल्ये २ तपसि ब्रतादौ च “प्रायः प्रयोधरसमुन्नतिरत्र हेतुः” उद्भटः । “प्रायो नाम तपः प्रोक्तम्” स्मृतिः ।
शब्दकल्पद्रुमः
प्रायः || [स्] व्य, (प्र + अय गतौ + असुन् ।)
बाहुल्यम् । इत्यमरः । ३ । ४ । १७ ॥ (यथा, कथासरित्सागरे । ६ । १२३ । “ततोऽहं शर्म्मवर्म्मा च ज्ञातवन्तौ क्रमेण ताम् । अत्रान्तरे स च प्रायः पर्य्यहीयत वासरः ॥”)