वाचस्पत्यम्
प्रायोपवेश || पु० प्रायाय अनशनमृत्यये उपवेशः स्थितिः । सङ्कल्पपूर्वकम् सकलकार्यत्यागेन अनशनमरणाथमुद्यमे भा० व० २५० श्लो० । भावे ल्युट् । प्रायोपवेशन तत्रार्थे न० । भा० व० १५१३८ श्लो० ।
शब्दकल्पद्रुमः
प्रायोपवेशः || पुं, (प्रायेण मृत्युनिमित्तकानशनेन उपवेशः स्थितिः ।)
सन्न्यासपूर्ब्बकानशनस्थितिः । यथा, —
“प्रायोपवेशो राजर्षेर्विप्रशापात् परीक्षितः ॥” इति श्रीभागवते १२ स्कन्धः ॥