वाचस्पत्यम्
प्रार्थना || स्त्री प्र + अर्थ—युच् । १ याच्ञायां २ हिंसायाञ्च । ३ गर्भाङभेदे सा० द० “संग्रहश्चानुमानञ्च प्रार्थना क्षिप्त- रेव च” गर्भाङान्युद्दिश्य “रतिहर्षोत्सबानान्तु प्रार्थनं प्रार्थना भवेत्” इति लक्षिता । ल्युट् । प्रार्थन याचने हिसने च न० । ४ मुद्राभेदे “प्रसृताङ्गलिकौ हस्तौ मिथःश्लिष्टौ च सम्मुखे । कुर्य्यात् स्वहृदये सेयं मुद्रा स्यात् प्रार्थनाभिधा” तन्त्रसा० ।
शब्दकल्पद्रुमः
प्रार्थना || स्त्री (प्र + अर्थ + णिच् + युच् ।)
प्रक- र्षेण याचनम् । (यथा, महाभारते । ३ । ३१२ । ८१ । “सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम् । श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष ! मन्यसे ॥”)