वाचस्पत्यम्
प्रार्थनीय || त्रि० प्र + अर्थ—कर्मणि अनीयर् । १ याचनीये अर्थयतेर्याचनार्थत्वेन द्विकर्मकत्वात् गौणे कर्मणि अनी- यर् । यतोयाच्यते २ तस्मिन् तस्याविवक्षायां मुख्ये याचनाकर्मणि इति बोध्यम् । ३ द्वापयुगे शब्दर० ।
शब्दकल्पद्रुमः
प्रार्थनीयं || क्ली (प्रार्थ्यते इति । प्र + अर्थ + णिच् + अनीयर् ।)
द्बापरयुगम् । इति शब्द- रत्नावली ॥ प्रार्थनाविषये, त्रि ॥ (यथा, पञ्च- तन्त्रे । २ । ११६ । “ततस्तयोः स्वभूपं बुद्ध्वा एकस्य वरः प्रार्थ- नीयः ॥”)