वाचस्पत्यम्
प्रार्थित || त्रि० प्र + अर्थ + क्त । १ याचिते २ अभिहिते मेदि० ३ शत्रुसंयते च त्रिका० ।
शब्दकल्पद्रुमः
प्रार्थितः || त्रि (प्रार्थ्यते स्मेति । प्र + अर्थ + क्तः ।)
याचितः । (यथा, देवीभागवते । २ । ६ । ५६ । “प्रार्थिता पतिना कुन्ती ददौ मन्त्रं दयान्विता । एकपुत्त्रप्रबन्धेन माद्री पतिमते स्थिता ॥”)
शत्रुसंरुद्धः । अभिहितः । इति मेदिनी ॥ हतः । इति त्रिकाण्डशेषः ॥