संस्कृत-शब्दकोशः

प्रालम्बिका प्रालेयांशु

प्रालेय

वाचस्पत्यम्

प्रालेय ||‍ न० प्रकर्षेण लीयते प्र + आ—ली—यत् । आत्त्वे एत्त्वम्, प्रलयाय हितम् अण् नि० एत्त्वम् वा । हिमे अमरः ।


शब्दकल्पद्रुमः

प्रालेयं || क्ली (प्रकर्षेण लीयन्ते लीना भवन्ति पदार्था अत्रेति प्रलयो हिमालयस्तत आग- तम् । प्रलय + अण् । “केकयमित्रयुप्रलयानां यादेरियः ।” ७ । ३ । २ । इति यस्येयादेशः ।)
हिमम् । इत्यमरः । १ । ३ । १८ ॥ (यथा, देवीभागवते । ४ । ५ । १३ । “नरनारायणौ चैव चेरतुस्तप उत्तमम् । प्रालेयाद्रिं समागत्य तीर्थे वदरिकाश्रमे ॥”)



Correction: