वाचस्पत्यम्
प्रावार || पु० प्र + आ + वृ—करणे घञ् । १ उत्तरीयवस्त्रे अमरः भावे घञ् । २ प्रकर्षेण आवरणे पु० ।
शब्दकल्पद्रुमः
प्रावारः || पुं, (प्राव्रियते गात्रमनेनेति । प्र + आ + वृ + करणे घञ् ।)
उत्तरासङ्गः । उत्तरीय- वस्त्रम् । इत्यमरः ॥ (यथा, महाभारते । २ । ४८ । ९ । “आच्छादयसि प्रावारानश्नासि पिशितौदनम् । आजानेयावहन्त्यश्वाः केनासि हरिणः कृशः ॥”)