संस्कृत-शब्दकोशः

प्रावृत प्रावृत्तिक

प्रावृति

वाचस्पत्यम्

प्रावृति ||‍ स्त्री प्र + आ + वृ—करणे क्तिन् । प्राचीरे शब्दर० ।


शब्दकल्पद्रुमः

प्रावृतिः || स्त्री (प्रावृणोति प्रकर्षेण आच्छादयति दृष्टिपथमनयेति । प्र + आ + वृ + करणे क्तिन् ।)
प्राचीरम् । इति शब्दरत्नावली ॥ (मलः । यथा, सर्व्वदर्शनसंग्रहे शैवदर्शने । “प्रावृतीशौ बलं कर्म्म मायाकार्य्यञ्चतुर्विधम् । पाशजालं समासेन धर्म्मनाम्नैव कीर्त्तिता ॥” “अस्यार्थः । प्रावृणोति प्रकर्षेणाच्छादयत्यात्मनो दृक्क्रिये इति प्रावृतिः स्वाभाविक्यशुचिर्मल इति ॥”)



Correction: