संस्कृत-शब्दकोशः

प्रावृषायणी प्रावृषिज

प्रावृषिक

वाचस्पत्यम्

प्रावृषिक ||‍ पुं स्त्री प्रावृषि कायति शब्दायते कै—क अलुक्स० । १ मयूरे धरणिः । स्त्रियां जातित्वात् ङीष् । प्रावृषि भवः ठञ् । २ वर्षाकालभवे त्रि० स्त्रीयां ङीप् ।


शब्दकल्पद्रुमः

प्रावृषिकः || पुं, (प्रावृषि वर्षाकाले कायति शब्दायते इति । कै + कः । अलुक्समासः ।)
मयूरः । इति धरणिः ॥ (प्रावृषि भवः । प्रावृष् + ठक् ।)
प्रावृट्कालभवे, त्रि ॥



Correction: