संस्कृत-शब्दकोशः

प्राशित प्राशित्राहरण

प्राशित्र

वाचस्पत्यम्

प्राशित्र ||‍ न० यज्ञिये यवमात्रं पिप्पलमात्रं वाऽवत्ते ब्रह्मोद्दे- श्यके भागे शिश्नांशभेदे “शिश्नात् प्राशित्रावदानम्” कात्या० १११७ । “मित्रस्य त्वा चक्षुषा प्रतीक्ष इति प्राशित्रं प्रतीक्षते” ३ । २ । १५ “प्राशित्रमवदीयमानमाह्रियमाणं च प्राशित्रं ब्रह्मणो भागः यवमात्रं पिप्पलमात्रं वाऽवत्तः” कर्कः “स यत् प्राशित्रमवद्यति” इत्युपक्रमे । अथास्म महाभागं पर्य्याहरन्ति। ब्रह्मा वै यज्ञस्य दक्षिणत आ- स्तेऽभिगोप्ता स एतं भागं प्रतिविदान आस्त यत् प्रा- शित्रं तदस्मै पर्य्याहार्षुस्तत्प्राशीदथ यमस्यै ब्रह्मभावं पर्याहरन्ति तेन भागी स यदतऊर्द्ध्वमसंस्थितं यज्ञस्य तदभिगोपायति तस्माद्वा अस्मै ब्रह्मभागं पर्याहरन्ति” शत० ब्रा० १ । ७ । ४ । १८



Correction: