संस्कृत-शब्दकोशः

प्राष्टवर्ण प्रासक

प्रास

वाचस्पत्यम्

प्रास ||‍ पु० प्रास्यते प्र + अस—क्षेपे कर्मणि घञ् । कुन्तास्त्रे अ- मरः । कुन्तशब्दे २००१८ पृ० दृश्यम् ।


शब्दकल्पद्रुमः

प्रासः || पुं, (प्रास्यते क्षिप्यते इति । प्र + अस् + “हलश्च ।” ३ । ३ । १२१ । इति घञ् ।)
कुन्ता- स्त्रम् । इत्यमरः । २ । ८ । ९३ ॥ कॐच इति भाषा ॥ (यथा, महाभारते । ६ । ६७ । २३ । “गदाभिरसिभिः प्रासैर्वाणैश्चानतपर्व्वभिः ॥” अस्य आकृतिलक्षणादिकं यदुक्तं शुक्रनीतौ तद्यथा, —
“प्रासास्त्रन्तु चतुर्हस्तं दण्डबुध्नं क्षुराननम् ॥” यथाच । “प्रासस्तु सप्तहस्तः स्यादौन्नत्येन तु वैणवः । लौहशीर्षस्तीक्ष्णपादः कौशेयस्तवकाञ्चितः ॥ आकर्षश्च विकर्षश्च धूननं वेधनं तथा । चतस्र एता गतय उक्ताः प्रासं समाश्रिताः ॥”)



Correction: