वाचस्पत्यम्
प्रासङ्ग || पु० प्र + सनृज—कर्मणि घञ् दीर्घः । दम्यवत्सानां स्कन्धे शिक्षार्थमासज्यमाने युगभेदेअमरः । तं वहति यत् । प्रासङ्ग्य तद्वाहके दम्यवृषे अमरः ।
शब्दकल्पद्रुमः
प्रासङ्गः || पुं, (प्रसज्यते इति । प्र + सन्ज + घञ् । उपसर्गस्येति दीर्घः)
युगम् । इत्यमरः । २ । ८ । ५७ ॥ योयालि इति भाषा । “अनसः शकटस्य सम्बन्धि अनसि सम्बद्धं वा-यत् युगं ततोऽन्यत् यत् वत्सानां दमनकाले स्कन्धे आस- ज्यते तत् युगं प्रासङ्गः ।” इति भरतः ॥ (यथा, महाभारते । १३ । ६४ । १९ । “विशाखायामनड्वाहं धेनुं दत्त्वा च दुग्धदाम् । सप्रासङ्गञ्च शकट सधान्यं वस्त्रसंयुतम् ॥”)