वाचस्पत्यम्
प्रासादकुक्कुट || पुंस्त्री० प्रासादे कुक्कुट इव । पारावते त्रिका० स्त्रियां जातित्वात् ङीष् ।
शब्दकल्पद्रुमः
प्रासादकुक्कुटः || पुं, (प्रासादस्य देवभूभुजां गृहस्य कुक्कुट इव । सर्व्वदा प्रासादविचारित्वादस्य तथात्वम् ।)
पारावतः । इति त्रिकाण्डशेषः ॥