वाचस्पत्यम्
प्रियङ्कर || त्रि० प्रियं करोति कृ—राच् मुम् । १ प्रियकारिणि २ श्वेतकण्टकार्य्यां ३ वृहज्जीवन्त्याम् ४ अश्वगन्धायाञ्च रवी राजनि० गौरा० ङीष् ।
शब्दकल्पद्रुमः
प्रियङ्करः || त्रि (प्रियं करोतीति । प्रिय + कृ + “क्षेमप्रियमद्रेऽण् च ।” ३ । २ । ४४ । इति चकारात् खच् । मुम् ।)
प्रियकारकः । यथा, “महाकुलीन ऐक्ष्वाके वंशे दाशरथिर्मम । पितुः प्रियङ्करो भर्त्ता क्षेमकारस्तपस्विनाम् ॥” इति भट्टिः । ५ । ७७ ॥ (दानवविशेषः । यथा, कथासरित्सागरे । ४७ । २४ । “महाबुद्ध्यचलाख्यौ च प्रियङ्करशुभङ्करौ । एते महारथा यज्ञरुचिधर्म्मरुची तथा ॥”)