वाचस्पत्यम्
प्रियता || स्त्री प्रियस्य भावः तल् । १ स्नेहे २ प्रेमणि अमरः । त्व । प्रियत्व तत्रार्थे न० शब्दर० ।
शब्दकल्पद्रुमः
प्रियता || स्त्री (प्रिय + तल् ।)
प्रियस्य भावः । हार्द्दम् । इत्यमरः । १ । ७ । २७ ॥ (यथा, मनुः । ५ । ५० । “न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् । स लोके प्रियतां याति व्याधिभिश्च न पीड्यते ॥”)