वाचस्पत्यम्
प्रियदर्शन || पु० प्रियं दर्शनमस्य । १ क्षीरिकावृक्षे २ शुकखगे च जटा० ३ सुदृश्ये त्रि० ।
शब्दकल्पद्रुमः
प्रियदर्शनः || त्रि (प्रियं दर्शनं यस्य ।)
सुदृश्यः । तत्पर्य्यायः । चक्षुष्यः २ । इति जटाधरः ॥ (यथा, रघुः । १ । ४७ । “तत्तद्भूमिपतिः पत्न्यै दर्शयन् प्रियदर्शनः । अपि लङ्घितमध्वानं बुबुधे न बुधोपमः ॥”)
शब्दकल्पद्रुमः
प्रियदर्शनः || पुं, (प्रियं दर्शनं यस्य ।)
शुकपक्षी । क्षीरिकावृक्षः । इति जटाधरः ॥ (गन्धर्व्व- विशेषः । यथा, रघुः । ५ । ५३ । “अवेहि गन्धर्व्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य ॥”)