संस्कृत-शब्दकोशः

प्रियवचन प्रियवर्णी

प्रियवद

वाचस्पत्यम्

प्रियवद ||‍ त्रि० प्रियं वदति वद—णच् मुम् । १ प्रियकरवादिनि मथुरबाषिणि । २ स्वेचरे ३ गन्धर्वभेदे पु० शब्दमा० वदेर- न्तःस्थवादित्वात् प्रियम्वदेति मयुक्तशब्दकल्पनं प्रामा- दिकमेव । “भुवि भवेन्नभजरैः प्रियंवदा” वृ० र० उक्ते द्वादशाक्षरपादके ४ छन्दोभेदे स्त्री । ५ शक्लन्तलासहचरी- भेदे स्त्री शकु० दृश्यम् ।


शब्दकल्पद्रुमः

प्रियंवदः || पुं, (प्रियं वदतीति । वद् + “प्रियवशे वदः खच् ।” ३ । २ । ३८ । इति खच् । मुम् ।)
खेचरः । गन्धर्व्वभेदः । (यथा, रघुः । ५ । ५३ । “अवेहि गन्धर्व्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य ॥”)
प्रियभाषिणि, त्रि । इति शब्दरत्नावली ॥ तत् कारणं यथा, दानसागरे शिवपुराणम् । “गोसहस्रप्रदातारो भूमिदातार एव च । ये सुवर्णप्रदातारस्तथा सर्व्वे प्रियंवदाः ॥” (द्वादशाक्षरवृत्तौ, स्त्री । तल्लक्षणं यथा, वृत्तरत्नाकरे । “भुवि भवेन्नभजरैः प्रियंवदा ॥”)



Correction: