संस्कृत-शब्दकोशः

प्रियवल्ली प्रियव्रत

प्रियवादिन्

वाचस्पत्यम्

प्रियवादिन् ||‍ त्रि० प्रियं वदति वद—णिनि । प्रियवाक्यभा- षके स्वियां ङीप् “भार्य्या चाप्रियवादिनी” चाणक्यः ।


शब्दकल्पद्रुमः

प्रियवादी || [न्] त्रि, (प्रियं मनोज्ञं वदतीति । वद् + णिनिः ।)
मनोज्ञवक्ता । यथा, चाणक्ये । “कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥” (यथा च पञ्चतन्त्रे । २ । १७४ । “सुलभाः पुरुषा राजन् ! सततं प्रियवादिनः । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः ॥”)



Correction: